________________
पञ्चदशपरिवर्तः ।
हितं सुखं च चाणं च शरणं लयनं नृणाम् । परायणच दौपश्च परिणायकसंज्ञकम् ॥ २७ ॥ अनाभोगं चिभिर्यानैः फलासाक्षात्क्रियात्मकम् । पश्चिमं गतिकारिचमिदं कारिचलक्षणम् ॥ २८ ॥ इति कारित्रलक्षणेनावच्छिन्नानां स्वभावलक्षणं कथयन् प्रतिपत्त्यर्थमाह । के भगवन्निमामित्यादि (p 2997) | स्वरूपमावेदयन्नाह । ये सुभूते चरिताविन इत्यादि । स्वभावलक्षणकथनार्थं प्रश्नयन्नाह । किं स्वभावा इत्यादि । परिहर्तुमाह । वैनयिकविविक्तस्वभावा इति । विनौयतेsan विनय धर्मधातुः तत्प्रभवो विपक्ष विवेका द्विविक्तः स्वभावो येषां ते तथोक्ता इत्यनेनैव पदेन क्लेशविवेकस्वभावो रागादिविविक्तस्वभावत्वेन, क्लेशलिङ्गविवेकस्वभावो रागादिलिङ्गकायादिदौष्ठुल्यविविक्तस्वभाववत्त्वेन, क्लेश
३६२
निमित्तविविक्तस्वभावो रागादिनिमित्तायोनिशोमनसिकारविविक्तस्वभावत्वेन, विपक्षप्रतिपक्षविवेकस्वभावो रागारागद्वेषाद्वेषमोहामोहविविक्तस्वभावत्वेन चेति स्वभावचतुष्टयं सर्वाकारज्ञतागतिकत्वेनाधिमुक्तृणां भावनामार्गेपन्यासार्थेनावेदितम् । तामेव गतिं निर्देष्टुमाह । किं भगवन्नेवमित्यादि । एवं गतिका इति । सर्वाकारज्ञतागतिकाः । साधूक्तत्वेनाह । एवमेतत्सुभूत इत्यादि । दुष्करस्वभावं वक्तुमाह । दुष्करकारक इत्यादि (p. 300, 6)। एवमेतदिति ।
सम्बद्धतामुपादाय
सर्वधर्माणामत्यन्ततयाऽविद्यमानत्वात्तदसर्वसत्त्वापरिनिर्वापणदुष्करसन्नाह