________________
अभिसमयालधारालोकः ।
३६१ अतोऽनन्तरमेवं खलु सुभूते बोधिसत्त्वा महासत्त्वाऽनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धाः (p. 299, 6)। सन्तो लोकस्य गतिर्भवन्तीति वक्ष्यमाणेन हारकान्तेन सम्बन्धतः। सर्वज्ञताधिकारस्तु हिताद्यनाभोगपर्यन्ते सर्वत्रकारित्रे निर्वाणपरिदीपनार्थेन वेदितव्यः। मार्गज्ञताधिकारधर्मदैशिकत्वेन यथायाननिर्वाणतदसाक्षात्करणोपसंहाराहतिर्भवन्तीति। यानत्रयनिर्याणतत्फलासाक्षात्करणकारिचं प्रतिपादयन्नाह। अनुत्पादगतिका होत्यादि (p. 298, 9) । तत्र कल्पितदुःखविवेकादनुत्पादगतिकाः, विकल्पितदुःखविरहादजातिगतिकाः, धर्मतादःखवियोगादभावगतिकाः। कल्पितसमुदयाभावात् स्वप्नोपमप्रतिभासमात्रस्य विद्यमानत्वेन स्वप्नगतिकाः। यथा आत्मा प्रमाणबाधितत्वान् न विद्यते, तददिकल्पितसमुदयासत्त्वादात्मगतिकाः। धर्मतासमुदयस्य मायोपमत्वेनाविद्यमानपरिच्छेदत्वादपर्यन्तगतिकाः। कल्पितादिविविधभावनिरोधाद्यथाक्रम शान्तगतिकाः, निर्वाणगतिकाः, अप्रत्युद्धारगतिका इति पदवयं वाच्यम् । तथैव कल्पितादिविविधमार्गस्वभावत्वादनागतिकाः, अगतिकाः, अचलगतिका इति । अतोऽप्यनन्तरं पूर्ववद्धारकान्तेन सम्बन्धः करणीयः। गतिकारित्रं कथयन्नाह । रूपगतिका होत्यादि। रूपादिगतिका धर्मतात्मकरूपादिस्वभावाः। लोकस्य गतिर्भवतौति । सर्वाकारज्ञताधिकारिकसर्वधर्मदैशिकत्वेन बोधिसत्त्वा लोकस्याश्रयणीया भवन्तीति। यथोक्तमेकादशविधमेव कारिवलक्षणमवसातव्यम् । तथा चोक्तम् ।