________________
३६.
पञ्चदशपरिवर्तः ।
प्रकाशनात्सारथिभावेन परार्थप्रतिपत्युपसंहारान्नायकाः । अनाभोगादिकारिचचयार्थं प्रश्नयन्नाह । कथवेत्यादि । लोकस्य गतिर्भवतीति । त्रिविधकारिचव्यापारोपसंहारादाश्रया भवन्तौति । तत्र सर्वज्ञताधिकारधर्म दैशिकत्वेनानाभोगप्रवृत्तसत्त्वार्थोपसंहारादाश्रया भवन्तौत्यनाभोगकारिचं तावत् कथयन्नाह । इह सुभूत इत्यादि । आकाशगतिकमिति । आकाशनिष्ठम् । एतदेव कथयनाह । यथाकाशमित्यादि । तच द्रव्याभावमात्रमाकाशम् । अतीतात् कालादागमनाभावादनागतमनागते च काले गतिवैकल्यादगतम् । कारक हेतोर सत्त्वादकृतं विनाशहेतुविरहादविकृतम् । स्थापकसंस्कारानुपपत्तेरनभिसंस्कृतम् । कालचये स्वभाववियोगाद्यथाक्रममस्थितमसंस्थितमव्यवस्थितम् । अतश्चानुत्पन्नमनिरुद्धम् । उपसंहारार्थमाह । एवमेव सुभूत इत्यादि । श्रकाशकल्पत्वादविकल्पा इति । खतुल्यत्वान्निर्विकल्पाः । अनागतमित्यादि अनागतमित्यादि निर्युक्तिकमिति । तत्कस्य हेतोरित्याशङ्क्याह । या सुभूते रूपस्येत्यादि (p. 298, 1 ) । शून्यता अनुत्पादरूपता । यदि नाम तस्या गमनागमनं नास्ति, तथापि रूपादीनां कथं न भवतीति । तत्कस्य हेतोरित्याशङ्कयाह । शून्यतागतिका हौत्यादि । अनुत्पादस्वभावत्वात्, सर्वधर्माः शून्यतादिस्वभावाः । तच मायोपमत्वाच्छून्यता । सर्वनिमित्तविगमादानिमित्तम् । प्रार्थनाविषयातिक्रान्तत्वादप्रणिहितम् ।
गगनवत् प्रकृतिप्रभास्वरत्वादनभिसंस्कारः । तां गतिं न व्यतिवर्तन्ते । तं स्वभावं नातिक्रामन्ति ।