________________
अभिसमयालशारालोकः।
३५९
निर्वाणसमतोपसंहारार्थेन वातारो भवन्ति । दोपकारिचं वक्तुमाह। कथञ्च सुभूत इत्यादि। उदकपरिच्छिन्ना इति । जलमध्यस्थिताः स्थलभागाः। पूर्वान्तापरान्तपरिच्छिन्नं रूपमिति । पूर्वान्तो हेतुरपरान्तं कार्य ताभ्यां परिच्छिन्नम्। तन्मध्यवर्ति मायोपमस्वरूपम्। एतेन सुभूते परिच्छेदेनेति । तत्त्वतोऽनुत्पादेन । एतच्छान्तमित्यादि। पदपञ्चकेन प्रयोगदर्शनभावनाऽशैक्षविशेषमार्गेषु यथाक्रम मार्गसत्यमावेदितम् । लोकस्य दीपा भवन्तीति । उदकपरिक्षिप्तसुस्थलसाधम्र्येण पूर्वान्तापरान्तपरिच्छिन्नसर्वधर्माधिगमात् तृष्णाक्षयविरागनिरोधनिर्वाणदेशिकत्वेन, स्वपराधिगमाधारभावोपसंहारादाश्रयणीया भवन्ति । कथञ्चत्याद्यालोककारित्रं पुनः सालोकरत्नदीपसाधयेणाविद्यान्धकारक्षयस्य तृष्णादिक्षयान्तर्भावेन दोपकारित्रमेव। पृथक्करणं तु ज्ञानालोकस्याज्ञानक्षये प्राधान्यादिति वेदितव्यम् । अविद्याण्डेत्यादि। अविद्यैवाण्डकोशपटलं ग्राह्यग्राहकाकारादिप्रतिभासः। तेन पर्यवनडानां समन्ताबाह्येन ज्ञानेन युक्तानां सत्त्वानाम्। तमोऽभिभूतानामान्तरेणाविद्यावासनाबौजेनाभिभूतानां सर्वाज्ञानतमोऽन्धकारं बाह्याभ्यन्तरमज्ञानं विधुन्वन्त्यपनयन्तीति सम्बन्धः । किं कुर्वाणा इत्याह । प्रज्ञायाऽवभासयन्त इति ज्ञानालोकं कुर्वाणा इत्यर्थः । परिणायककारित्रं कथयन्नाह । कथञ्च सुभूत इत्यादि। परिणायका भवन्तौति (p. 297, 1) । रूपादिसर्वधर्माणां स्वभावेनानुत्पादानिरोधाय धर्म