________________
२५८
पञ्चदशपरिवर्तः ।
रूपाद्यनुत्पादाय लयनमिति। दुःखहेतुनिवर्तनार्थेन । अश्लेषार्थमेव स्पष्टयन्नाह। कथं भगवन्नश्लेष इत्यादि। ज्ञानदर्शनादिति (p. 295, 3) । यथानिर्दिष्टार्थसाक्षात्करणं ज्ञानदर्शनम् । परायणकारित्रं प्रतिपादयनाह। कथञ्च सुभूत इत्यादि। यत्सुभूते रूपस्य पारं न तद्रूपमिति। प्रकर्षगमनार्थेन रूपस्य यत्पारमनुत्पादो निःस्वभावता न तद्रूपं भवतीति संहत्या। परमार्थतः पुनर्यथा पारं शून्यता तथा रूपम् ।
धर्मधातुविनिर्मुक्तो यस्माद्धर्मों न विद्यते। इत्याह । यथा सुभूते पारं तथारूपमिति। अभिसम्बद्धा एवेति। इदानीमपि शून्यतारूपत्वादुद्धत्वावस्थायामिवाधिगताः सर्वधर्मास्तस्मादेतत्स्वाभियोगो व्यर्थ इति भावः । भ्रान्त्यात्मकविकल्पसद्भावात् कथमभिसम्बुद्धा इति। तत्कस्य हेतोरित्याशयाह। न ह्यवेत्यादि। विकल्पस्यानुत्पादरूपत्वाद्र्पादिपारे विकल्यो नैवास्तीत्यर्थः । अभिसम्बुवा एव भवन्ति सर्वधर्मा इति। तत्त्वत एवेति शेषः। संस्त्या पुनरनादिकालौनसमारोपापनयनाय सूत्राभियोगः सफला भवेदिति भावः। संस्त्यधिगममेवावेदयन्नाह । इदमपोत्यादि। बहुशो बहुधोपायं भावयन्त्युपनिध्यायन्ति न च साक्षात् कुर्वन्तौदं परमदष्करं सहसा कर्तुमशक्तम् । न चावलौयन्ते दानादिपारमितापूरणे च कौशौद्यं न प्रतिपद्यन्ते । एते धर्मा इति। प्रकृतिपरिनिर्वृतत्वादिलक्षणाः। परायणं भवन्तौति। धर्मदेशनया संसार