________________
अभिसमयालशागलोकः ।
अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ। सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते ॥२४॥ क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ । आलम्बनञ्च साधारं साकल्यं संपरिग्रहः॥२५॥ अनास्वादश्च विजयो विशेषः षोडशात्मकः । विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते ॥२६॥ इति विशेषलक्षणेनावच्छिन्नायां किं कारिवमिति कारित्रलक्षणं वक्तव्यम् । तत्र हितसुखकारित्रे निर्दिशन्नाह । दष्करकारका भगवन्नित्यादि (p. 293, 8)। एवंरूपमिति । बुद्धत्वनिष्यादकमविकलं कारणमित्यर्थः। तत्रानागततदात्वसुखोपसंहाराभिप्रायेण हिताय सुखायेति इयमुक्तम् । एतच्च हयमनुकम्पया स्यादित्याह । लोकानुकम्पायै सम्प्रस्थिता इति। त्राणादिकारित्रप्रतिपादनायोद्देशमाह । लोकस्य त्राणं भविष्याम इत्यादिना । तत्र चाणकारित्रं निर्दिशन्नाह । कथञ्च सुभूत इत्यादि। तत्र व्यायच्छन्ते वौर्यमारभन्त (p. 294, 3) इति । प्रयोगासन्तुष्टिवीर्याभ्यां यथाक्रमं योज्यम् । त्राणं भवन्तौति । अविपाकधर्मतायां स्थापनात् । शरणकारिचं वक्तुमाह। कथञ्चेत्यादि। तत्र जातिरभूत्वाभावः, जरा पूराणीभावः, व्याधिरस्वास्थ्यं मरणं पूर्वकर्माक्षिप्तनिकायपरित्यागः, शोको वैमनस्यं, परिदेवः प्रियगुणानुस्मरणसहितं क्रन्दनं, दुःखं कायिकमशान्तं वेदितं, दौर्मनस्यं चैतसिकं पूर्ववत्, उपायासो भारोबहनादिः। शरणमिति। आत्यन्तिकहितोपसंहारार्थेन । लयनकारिचं निर्दिशन्नाह। कथञ्चेत्यादि । अश्लेषायेति ।