________________
पञ्चदशपरिवर्तः।
अनास्वादविशेषञ्चतुर्थक्षणसङ्ग होतं निर्दिशन्नाह । आदिकर्मिकेणेत्यादि (p. 292, 2)। तत्र कायेन वाचा परिवारादिप्रदानेन वाऽराधनाद्यथासंख्यं सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि इति योज्यम् । योग मापद्यस्वेति। देयदायकप्रतिग्राहकाद्यनुपलम्भयोगेन प्रतिपत्तिपरो भव। मा रूपतः परामक्ष इति। मा रूपाद्यभिनिवेशयोगेन ग्रहौरित्यर्थः । तथैव तत्कस्य हेतोरित्याशदयाह। अपरामृष्टा होत्यादि। तत्त्वतोऽनुत्पादरूपत्वात् सर्वाकारज्ञता न केनचित् प्रकारेण प्रत्यवमर्षणौया। पेयालमिति। तत्सर्वमनुत्तरायामिति (p 293, 1)। यावत् कुलपुत्र सर्वत्रेत्ययं ग्रन्यः शौलादिपारमिताचतुष्टयेऽतिदेशनीयः। अनुपूर्वेणेति। आदावात्मादिनिराकरणेन बाह्येऽर्थे प्रतिष्ठाप्य पश्चात्कल्पितपरतन्त्रपरिनिष्यन्नस्वभावकथनेन चैधातुकचित्तमात्रावगमे नियोज्य तदनु सम्यगर्थक्रियासु योग्यमयोग्यं तथ्यातथ्यभेदेन संशतिसत्यदयमविचारैकरम्यपूर्वपूर्वस्वकारणाधीनं निर्दिश्य तथ्यसंहतौ स्थित्वा यथादर्शनं मायापुरुषेणेव दानाद्याचरितव्यम् । परमार्थतोऽनुत्पादश्च भावयितव्य इत्येवंक्रमेण प्रज्ञापारमितायामवतारयितव्यः। तदेवं षोडशप्रकारं विशेषलक्षणमावेदितं येन श्रावकादिमार्गेभ्यो बोधिसत्त्वादीनां मार्गज्ञतादिदये विशेषमार्गो विशिष्यते । अतस्तेषां यथोक्तविशेषविकलाऽभिज्ञाद्युत्पादनलक्षणत्वेन सुगमत्वानोक्तः। तथा चोक्तम्।