________________
अभिसमयालशारालोकः।
३५५ येतत्सुभूत इत्यादि। आकोटितानाकोटितनौग्रहणं प्रतिपत्तिवैकल्यसाकल्यज्ञापनार्थम् । सम्परिग्रहविशेषं तृतीयक्षणसङ्ग्रहोतं प्रतिपादयन्नाह। कश्चिदेव पुरुषो जीर्ण इत्यादि (p. 290, 6)। तत्र जराजर्जरितगात्रत्वाजौर्णः । वयःप्राप्तत्वेन दृड्वः। सुभाषितदर्भाषिताविवेकत्वान्महल्लकः । क्षपित इत्युपहतः। तथैव तत्कस्य हेतोरित्याशङ्याह। यथापि नामेत्यादि। जौर्णपुरुषस्य परिग्रहापरिग्रहोदाहरणं प्रज्ञापारमितोपायकौशलपरिग्रहापरिग्रहाभ्यां यथायोगं संसारनिर्वाणैकान्तपातापातार्थपरिदीपनार्थम्।
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्याया
मौपम्यपरिवर्तो नाम चतुर्दशः ॥