________________
३५४
चतुर्दशपरिवर्तः । सर्वत्र नम्रता। प्रौतिः सौमनस्यम् । प्रामोद्यं हर्षविशेषः । प्रसादो गुणवत्तादर्शनाद्भक्तिविशेषः। प्रेम शक्यानुष्ठाने ऽभिलाषः। अनिक्षिप्तधूरता प्रतिज्ञाभारापरित्यागः । अनालम्बनालम्बनोदाहरणं सान्तरनिरन्तरकारिणोः मर्वाकारज्ञताविपक्षप्रतिपक्षभावपरिदीपनार्थम् । आधारविशेषं मार्गे प्रथमक्षणसंगृहीतं वक्तुमाह। तद्यथापि नाम सुभूते स्त्री वेत्यादि। नियुक्तिक एवायमिति। तत्कस्य हेतोरित्याशङ्याह । वस्तुधर्मत्वेन परिहरन्नाह । यथापि नामेत्यादि। परिवहेदित्युदकं नयेत् । तथैव तत्कस्य हेतोरित्याशक्य पूर्ववदाह । यथापि नामेत्यादि । प्रज्ञापारमितोपायकौशल्येनेति शून्यताकरुणाभ्यामित्यर्थः । परिपक्कामघटौ प्रतिपत्तिधर्मस्याधारानाधारभावसन्दर्शनाथौं । साकल्यविशेषं द्वितीयक्षणसङ्गहीतं प्रतिपादयनाह। दुष्प्रज्ञजातीय इत्यादि (p. 288, 9)। अनाकोटितामिति। उदकप्रवेशस्थाने वल्कलादानात्। अपरिकर्मकृतामिति । पूतिकाष्ठानपनयनात्। भारार्तामभिरूढं इति। गुरुभारभरितामुत्कलितः। असन्तीर्णभाण्डव सम्पत्स्यतीति। अप्राप्तस्थलपरिष्कारैवावसादं यास्यति । परिहौन इत्यप्राप्तपरिहाण्या। अन्तरा संसत्स्यति व्यवसादमापत्स्यते इति (p. 289, 1)। अन्तराभेदं यास्यति। बुद्धभूमिञ्च प्रति विषादमापत्स्यते। अनागतार्थनिश्चयाभावात् कथं स्थास्यत्ययमिति। तत्कस्य हेतोरित्याशयाविकलकारणमाचानुबन्धियोग्यतानुमानादाह। एवं