________________
अभिसमयालाराखोकः ।
३५३
असंहार्या चेति परिपृच्छाबाहुल्येनाशक्योत्तरा। तथैव तत्कस्य हेतोरित्याशङ्याह । एवं ह्येतत् सुभूते भवतीत्यादि। धर्मतैषा यत्कारणानुविधायि तत्कार्यमित्यर्थः । येन पूर्व न सम्परिपृष्टत्यादौ (p. 286, 2) तु सर्वकालमिति भावः। यतोऽनन्तरमेवोक्तमेकं वादिनमित्यादि। कच्चित्कालं छन्दोऽनुवर्तत इति। कतिपयदिनाभ्यासबलात्तावन्मात्रमभिलाषो भवति । कारणानुरूपत्वात् कार्यस्येति मतिः। उत्क्षिप्यत इति । श्रद्धातो अश्यते। अवसौदतौति श्रद्धायोगेऽपि। चलाचलेति प्रतिनियतधर्मानालम्बनात् । तदेवाह। तूलपिचूपमश्चेति। तूलवर्तिकरणाय संस्कृतं तूलकं तूलपिचुः। तेनानवास्थितसाधासदृशस्तदपमः श्रवणाद्यवस्थासु प्रयोगादिषु वा यथासंख्यं नानुग्रहीष्यति नानुवर्तिष्यते नानुपरिवारयिष्यतौति वाच्यम्। आलम्बनविशेषं चतुर्थक्षणसंगृहीतं निर्दिशन्नाह। तद्यथापि नामेत्यादि। बाह्याध्यात्मिकोपद्रवाभावात् । स्वस्तिनाऽनन्तरायेणेति योरुपादानम्। तदेवाह । अक्षताश्चानुपहताश्चेति। व्यध्वनौत्यन्तराल एव मार्गे विनाशमापत्स्यते । अस्ति श्रद्धेत्यादि (p. 287, 1)। तत्र श्रद्धास्तित्वेनाभिसम्प्रत्ययः। शान्तिरनुत्पादादिधर्मक्षमणम्। रुचिरवग्रहः। छन्दः कर्तुकामता। वौर्य कुशलोत्साहः । अप्रमादः कुशलाकुशलयोर्यथाक्रम सेवनासेवने। अधिमुक्तिर्निश्चयावधारणम् । अध्याशयः परोपकारादिग्रवणं चित्तम् । त्यागः फलेन सह सर्वस्वपरित्यजनम् । गौरवं
4