________________
३५२
चतुर्दशपरिवर्तः।
तीव्रप्रतिपत्तिविशेषं द्वितीयक्षणसंगृहीतं कथयन्नाह । यो भगवन् बोधिसत्त्व इत्यादि (p. 284. 2)। सह श्रवणेनेति। श्रवणमात्रानन्तरम्। तत्र श्रवणचिन्ताभावनाक्रियाविरोधेन यथाक्रमं नावलौयते न संलोयते नावतिष्ठते। यतोऽज्ञानसंशयमिथ्याज्ञानविरहान्न धन्वायति न विचिकित्सति न कांक्षतौति पदार्थों वाच्यः। अभिलाषयोगादभिनन्दति। न विपृष्ठौकरिष्यति मानसमिति । न विप्रतिसारञ्चित्तमुत्पादयिष्यति। करिष्यत्यनुबन्धमिति धर्मभाणकस्यापरित्यागात्तदेवाह। अनुगमिष्यति धर्माभाणकं नोत्स्रक्ष्यतीति। एतदेव दृष्टान्तेन वक्तमाह । तद्यथा नाम सुभूत इत्यादि। कायगता चेत्युरोगता करणात्। पुस्तकगता वेति पुस्तकधारणात् । समुदागमविशेषं तृतीयक्षणसङ्गहीतं वक्तुमाह। स्याद्भगवन्नेतैरित्यादि (p. 285, 1)। स्याद्भवेत् । किमिति काका प्रश्नः। एतैरेव गणैरिति प्रज्ञापारमिताधिमोक्षानवलयादिभिः । अन्वयमुखेन परिहरन्नाह । स्यात्सुभूते बोधिसत्त इत्यादि । व्यतिरेकमुखेनापि निर्दिशन्नाह। येन खल्लु पुनरित्यादि। नियुक्तिक एवायमिति। तत्कस्य हेतोरित्याशदयाह । तथा ह्यस्यास्यामित्यादि। एतदक्तम् । “यस्मान्मातुर्वासनाधानवैकल्येन कांक्षायितत्वादिकं भवति, तस्मात् पूर्वमपरिपृच्छकजातीय" इति। तदेव स्पष्टयन्नाह । पुनरपरमित्यादि। तावत्कालिकौति। कतिपयादिनानुबन्धिनौति । संहियते चेति। विरोधप्रत्ययबलादपनीयते ।