________________
व्यभिसमयालङ्कारालोकः ।
४०३
अधिमात्रं
चित्तत्रयेणायत्यां परहिताश्यतामुपादाय । मात्रादिचित्तोत्पादेन तदात्वे चायत्याश्च परेषामिष्टोपसंहारकामतामुपादाय निर्दिष्टम् । मृदुमूर्द्धगतं पापनिवृत्तौ स्वपरनियोजनेनान्येषां दुःखहेतुनिवृत्तिकामतामुपादाय । मध्यं दानादौ स्वपरस्थापनेनान्येषां सुखहेतुसन्नियोगाभिलाषितामुपादाय । अधिमात्रं द्विधा प्रतीत्यममुत्पादभावनायामात्मपरप्रवर्तनेनान्येषां, सुखदुःखविपर्यासप्रहाणाभिप्रायतामुपादायोक्तम् । मृद्दौ मध्याधिमात्रा च क्षान्तिर्यथाक्रममेव सत्येषु यावद्दोधिसत्त्वन्यामावक्रान्तावित्यनेनान्येषामार्यमार्गे प्रथमफलादौ बुद्धत्वे च नियोक्तुकामतामुपादाथोक्तम् । किं त्वधिमात्रा श्रान्तिरेकक्षणिक ग्राह्या । मृदुमध्याधिमात्रास्त्वग्रधर्मा यथासंख्यं परेषामविशेषेण यानत्रये परिपाचनाय विशेषेण बोधिमत्त्वमार्गे नियोजनाय सर्वसम्पत्प्रकर्षनिष्ठाधिष्ठानकामतामुपादाय सत्त्वपरिपाचनानावरणरूपसङ्घर्मस्थितिवचनेनेोक्ताः । यदुक्तमभिधर्मकोशे ।
यथाधिमाचा क्षान्तिरेव क्षणिक तथाग्रधर्माः । इति । तत् स्वार्थाधिकारात्। इह तु परार्थाधिष्ठानानां मृदुमध्याधिमात्रभेदो व्याख्यातः । परार्थस्य तारतम्यावस्थामम्भवादिति न तेनेदं विरुध्यते । प्रत्यभिसमयं कस्मानिर्वेधभागौयादिनिर्देश इति चेत । उच्यते । सर्वाकारमार्गवस्तुविभावनाभेदेन यथाक्रमं सर्वाकारज्ञतादित्रिविधेऽभिसमये लौकिक निर्वेधभागौयाधिगमपूर्वको लोकोत्तर - दर्शनभावनामार्गाधिगमः । सर्वाकाराभिसम्बोधादौ तु
,