________________
व्यभिसमयालङ्कारालोकः ।
३४६
1
पुद्गलसङ्ग्रहविशेषं समुदये प्रथमक्षणसङ्गृहीतं वक्तुमाह । गम्भौरा भगवन्नित्यादि (p. 281, 1) । मातरि बुद्धत्वाद्यप्रतिबन्धात् कथं महाकृत्यत्वमिति । तत्कस्य हेतोरित्या - शङ्क्याह । अत्र हौत्यादि । सर्वज्ञतासमायुक्तेति मर्वा - कारज्ञता । प्रज्ञापारमितायां प्रतिबद्धा । सर्वकार्य प्रतिबद्धत्वमेव मातुर्हष्टान्तेनाह । तद्यथापि नामेत्यादिना । मूर्धाभिषिक्तस्येति । अष्टादशमहाकुलिभिरभिषिक्तः । यदा राजहस्तिकरोदकाभिषिक्तः । जनपदस्थामवौर्यप्राप्तस्येति स्वराज्यविगमभयाभावाज्जनपदविषये स्थामप्राप्तः । तन्निग्रहानुग्रहसामर्थ्ययोगाद्दौर्यप्राप्तः । कृत्यानौति व्यापाराः । अमात्यसमायुक्तानौति । प्रतिबद्धानि । तत्र कायवाग्व्यापाराभावाद्यथाक्रममल्पोत्सुकोऽपहृतभार इति योज्यम् । परिग्रहाभिनिवेशमन्तरेणाधिगमानुपपत्तिरित्याशङ्क्याह । कथं भगवन्नित्यादि। परिहारार्थं प्रतिप्रश्नमाह । तत्किं मन्यस इत्यादिना (p. 282, 1 ) । परिग्रहं वाभिनिवेशं वेति । यथासंख्यं ग्राह्यग्राहकविकल्पाभ्यामवग्रहमित्यर्थः । नो हौदं भगवन्निति । अयमच समासार्थः । यस्मादार्यपुङ्गलस्य निर्विकल्पेन ज्ञानेन दर्शनमार्गादौ स्थितस्य ग्राह्यमिदं फलमहं ग्राहक इत्येवमरूपो विकल्पो न समुदाचरति, सर्वविकल्पप्रतिपक्षत्वात्तथाभूतज्ञानस्य । अन्यथा साभिलापविज्ञानैर्यथावस्थितवस्त्वनुभवानुपपत्तेस्तथ्यज्ञानवियुक्तत्वेन मार्गासम्भवात् क्लेशप्रहाणवैकल्ये सत्यर्हत्व - फलोदयो न स्याच्छ्रुतचिन्तावस्थायामिव । तस्मान्मार्गा