________________
३४
त्रयोदशपरिवर्तः ।
तत्त्वतो निःस्वभावत्वादिति भावः। दार्टान्तिकाथ वक्तमाह। एवमेव सुभूत इत्यादि (p. 280, 1)। अनेन पर्यायेणेति। आकाशदृष्टान्तनिर्देशेन। तथागतधर्मा इति । अचिन्त्यतादिभिरेव सर्वप्रकारं तथागतानां धर्माधिगमादपसंहारार्थमाह । अनेनापौत्यादि। तदेव स्पष्टयनाह। एते च सुभूते तथागतधर्मा इत्यादि। विज्ञानगतस्येति। मायोपमप्रतिभासप्राप्तस्यार्थस्याचिन्त्यतादिव्यपदेशः । संस्त्या। उपसंहारार्थमाह। तस्मात् सुभूत इत्यादि। अनास्त्रवधर्मदेशना सम्पन्नहेतुकानां विफला नास्तीत्याह। अस्यां खल पुनरित्यादि। अनुपादायासवेभ्य इति। क्लेशवासनाबीजाधानमकृत्वा क्लेशेभ्यश्चित्तानि विमुक्तानि। विरजो विगतमलं धर्मेषु धर्मचक्षुविशुद्धमिति। दःखसत्यादौ धर्मज्ञानक्षान्तिभिर्विरजः । धर्मज्ञानैर्विगतमलम् ज्ञेयविषये धर्मचक्षः पूर्वोक्तमपगतदोषमुत्पन्नम् । शान्तिः प्रतिलब्धेत्यनुत्पन्नाः सर्वधर्मा इति धर्मनिध्यानक्षान्तिर्दःखधर्मज्ञानक्षान्तिर्वा प्राप्ता। ते च विंशतिमात्रा बोधिसत्त्वाः। यद्यप्यनादिर्बुद्धवंशः प्रतिबुद्धोत्पादे चासंख्येयसत्त्वपरिनिर्वाणं तथापि संसारिणां परिक्षयो नास्ति, अनन्तादाकाशवत् । न हि पर्वताद्यनेकावरणसम्भवेऽपि नभसः परिक्षयोऽस्तीत्येके । ये प्रतिपक्षसन्निधावपचयधर्माणो दृष्टास्ते प्रतिपक्षात्यन्तसमृद्धौ सम्भवदत्यन्तापचयधर्माणो यथा कनकमलादयः। नैरात्यादिलक्षणप्रतिपक्षसम्मुखौभावेनापचयधर्माणः संसारिण इति स्वभावहेतुबलात् संसारिणामुच्छेद इत्यपरे। सर्वार्य