________________
व्यभिसमयालङ्कारालोकः ।
66
यस्मात् प्रमातुमशक्यम् । असंख्येयं हौति । यस्मादेकत्वादिना गणयितुं न पार्यते । कुतः पुनरुत्तर इति । समाभावादसमस्य कस्मात्पुनरुत्तरः प्रतिविशिष्टो भविष्यत्यतोऽसमेनात्मना समस्तुल्य इत्यसमसमो भगवान् सर्वज्ञः । एतदुक्तम् । " तथागतत्वादिकमेव सर्वैरचिन्त्यादिपदैर्व्यावृत्तिभेदेनोच्यत" इति । पदपरमत्वेन तथागतत्वादिकमेवाचिन्त्यादिविशिष्टमित्यवगम्य रूपादौ सन्देहादार्य - सुभूतिराह । किं पुनरित्यादि (p. 278, 6)। न्यायस्य तुल्यत्वादित्यभिप्रायेणाह । एवमेतत् सुभूते एवमेतत् रूपमपौत्यादि । पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याचिन्त्यातुल्यते तावत् पूर्वोक्ताभिप्रायेण कथयन्नाह । रूपस्य हि सुभूते या धर्मतेत्यादि । रूपमपि सुभूतेऽप्रमेयमित्यादिना (p. 279, 1) । अप्रमेयतां व्याचष्टे । कथं प्रमाणसद्भावेऽप्रमेया इति। तत्कस्य हेतोरित्याशङ्क्याह । रूपस्य हि सुभूते प्रमाणं न प्रज्ञायत इत्यादि । अप्रमाणत्वादिति । तत्त्वतोऽनुत्पन्नत्वेन सर्वधर्माणमप्रमाणत्वात् प्रमाणं न विद्यते । अतो न प्रज्ञायत इति यावत् । रूपमपौत्यादिनाऽसंख्येयतां कथयति । गणनासमतिक्रान्तत्वादिति । मायोपमत्वेनैव
३४७
·
एकत्वादिगणनाभिरसंगृहीतत्वात् । अचिन्त्यतादिकमेव स्पष्टयितुमसमसमताप्रतिपादनार्थमाह । रूपमपि सुभूते ऽ समसममित्यादि । आकाशसमत्वादिति । समाधिकाभावादाकाशेन तुल्यत्वादसमसमाः । सामान्येन पुनरपि प्रतिपादयन्नाह । तत्किं मन्यस इत्यादि । नो हौदमिति ।