________________
३४६
त्रयोदशपरिवर्तः। __सामान्यरूपतया ज्ञानाकारेण परिच्छिन्नानां विशेषो ज्ञेय इति। ज्ञानलक्षणानन्तरं विशेषलक्षणं सामान्येनोपोहातयन्नाह। अथ खल्वायुष्मानित्यादि (p. 277, 2) । महाकृत्येनेति । अचिन्त्यातुल्यादिविशेषविशिष्टैर्दुखादिसत्यविषयैः षोडशभिर्धर्मान्वयज्ञानक्षान्तिज्ञानक्षणैर्विशेषलक्षणस्वभावैस्तथागतत्वाद्यर्थाय प्रत्य पस्थितेत्यर्थः। तथा चोक्तम्।
अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः। विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः ॥ २३॥ इति
वतशब्दोऽवधारणे। कः पुनरचिन्त्यादिविशेष इत्याह । अचिन्त्यकृत्येनेत्यादि। अचिन्त्यातुल्याप्रमेयासंख्येयताभिस्तावदिशेषैर्यथाक्रमं दःखसत्यचतुःक्षणसंग्रहीतैर्विशेषलक्षणमुक्तम् । असमसमकृत्येनेति। सर्वेषामेवेदं विशेषणम् । एषाञ्च व्याख्यानं ग्रन्थत एव भविष्यति । निरुपपत्तिक एवायमनुवाद इति व्याख्यातुमाह। कथश्वेत्यादि। तत्र तथागतत्वमित्यादिपदचतुष्टयमादर्शादिज्ञानचतुष्टयभेदेन योज्यमिति पूर्वाचार्याः। तथागतत्वादिनिष्पादनादचिन्त्यकृत्यत्वमेवमुत्तरचाप्यतुल्यकृत्यत्वादिकं ग्राह्यम्। चित्तचैतसिकादिप्रवृत्तौ कथं चिन्तयितुं न शक्यमिति। तत्कस्य हेतोरित्याशयाह। न हि चित्तमित्यादि । चित्तं मनोज्ञानां, चेतना मानसं कर्म, तज्ज्ञे वाकायकर्मणौ चैतसिको वा प्रज्ञादिरालम्बकभावेनात्र बुद्धत्वादौ न प्रवर्तते। सर्वविपर्यासापगमादिति भावः। तुलयितुं वेति । बुड्या स्वरूपमवधारयितुम्। अप्रमेयं होत्यादि ।