________________
३५०
त्रयोदशपरिवर्तः। द्यस्थितस्यैव योगिनोऽपगतैकत्वाभिनिवेशवचनादिविकल्पवत् समारोपरहिता ग्राह्यग्राहककल्पनामतिरुपजायते । तथा च वस्तुतत्त्वाग्रहणान्नाहं तं धर्म समनुपश्यामौति । एतदेवानुवदन्नाह । एवमेतदित्यादि। औपलम्भिकजनानुकम्पयाह । सर्वज्ञतापि भगवन्नित्यादि। तस्मात्तेभ्यो न वक्तव्यमिति भावः । पुरुषविशेषवेदनीयताविशेषं द्वितीयक्षणसङ्ग्रहोतं कथयन्नाह । अपि नु खलु पुनरित्यादि। तत्र प्रकृतिसमुदानीतगम्भीरधर्माधिमोक्षगोवत्वेन यथाक्रम हेतुसम्पन्नाः। दीर्घराचावरोपितकुशलमूलाः। गोबद्दयस्य तथागताधिष्ठानेन वृद्ध्यर्थं पदद्दयमध्ये पूर्वजिनकृताधिकारा इत्युक्तम्। तत्र गम्भौरा दुर्दशा दुरनुबोधेति। पदचयं कल्पितादिस्वभाववयानुपलम्भतोऽवगन्तव्यम् । असाधारणताविशेषं तृतीयक्षणसंगृहीतं निर्दिशन्नाह । सचेद्भगवन्नित्यादि (p. 283, 1)। श्रद्धानुसारिभूमाविति निर्वेधभागीयावस्थातः पूर्व सम्भारभूमौ दानाद्यनुष्ठानमुपलम्भयोगेन कुर्युः। शान्तिमिति धर्मनिध्यानधान्तिः । श्रवणावस्थायां प्रयोगमौलभेदेन रोचयेगवेषयेत्। चिन्तावस्थायां तथैव चिन्तयेत् तुलयेत्। भावनावस्थायां पूर्ववदपपरीक्षेत उपनिध्यायेदिति वाच्यम् । क्षिप्राभिज्ञताविशेषं चतुर्थक्षणसंगृहीतं प्रतिपादयन्नाह। एवमुक्ते भगवान्नित्यादि। यावदिति वचनादोधिसत्त्वादिपरिग्रहः। निर्वाणमिति तथागतत्वम् । अन्यूनापूर्णताविशेषं निरोधे प्रथमक्षणसंगृहीतं वक्तुमाह। अथ खलु ते कामावचरा