________________
अभिसमयालवारालोकः ।
३४३
पूर्वमवस्थितानौति । तत्कस्य हेतोरित्याशङ्याह। यथैतानित्यादि। आख्यातानौति। शून्यतादिरूपेण प्रभेदत इति शेषः । अलक्षणज्ञानं कथयन्नाह । गम्भौराणि भगवन्नित्यादि। असङ्गज्ञानमिति सर्वाभिनिवेशरहितं परमार्थतोऽलक्षणज्ञानं निष्पन्नावस्थायां यदत प्रज्ञापारमिता बुद्धानां तदेवाह । असङ्गज्ञानायेत्यादिना। अनिष्यन्नावस्थायां पुनरसङ्गज्ञानाय भाव्यमाना प्रज्ञापारमिता तथागतानामेवं सर्वाकारं गोचरो ज्ञानविषयौभवति । अस्य लोकस्य सन्दर्शयित्रौति। यथोक्तैः षोडशप्रकारैर्मार्गज्ञताज्ञानैलॊकतत्त्वसाक्षात्करणाल्लोकं मन्दर्शयति। तथा चोक्तम्।
शून्यत्वे सानिमित्ते च प्रणिधानविवर्जिते । अनुत्पादानिरोधादौ धर्मताया अकोपने ॥१८॥ असंस्कारेऽविकल्ये च प्रभेदालक्षणत्वयोः । मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते ॥ १६॥ इति तदनन्तरं सर्वाकारज्ञताहारेण ज्ञानलक्षणार्थमाह । यथा सुभूते तथागता इत्यादि। तत्र स्वधर्मोपनिश्रयज्ञानं सम्यक्सम्बद्धस्य कथयन्नाह । इमं धर्म प्रज्ञापारमितामित्यादि। अस्थानत इत्यनभिनिवेशतः। विहरन्तौति दृष्टधर्मसुखविहारार्थमधिगतमर्थमामुखीकृत्य विहरन्ति । सत्कारगुरुकारमाननापूजनाज्ञानानि वक्तुमाह। धर्म सत्कुर्वन्तीत्यादि। पूजयन्तीत्यस्यार्थ प्रयोगपृष्ठावस्थाभेदेनाह। अर्चयन्त्यपचायन्तौति सामान्येन निर्दिश्य विशेषार्थमाह । प्रज्ञापारमितैवेत्यादि। विशेषग्रहणे किं