________________
३४२
द्वादशपरिवर्तः ।
तदनन्तरं मार्गज्ञताधिकारेण ज्ञानलक्षणकथनार्थमाह । अथ खलु शक्रदेवेन्द्रप्रमुखा इत्यादि । कथं भगवन्नत्र लक्षणानि स्थाप्यन्त इति । केन प्रकारेण मार्गज्ञताधिकारे ज्ञानलक्षणानि निर्दिश्यन्ते । श्रन्यमित्यादि (p. 273, 1 ) |
शून्यतानिमित्ताप्रणिहितानुत्पादानिरोधासंक्लेशाव्यवदानाभावज्ञानान्यष्टौ स्वशब्देनोक्तानि । स्वभावज्ञानं निर्वाणमिति । अनिश्रितज्ञानं धर्मधातुरिति । आकाशलक्षणज्ञानं तथतेति । एवं ज्ञानत्रयं व्यवस्थापितम् । निर्युक्तिकञ्चेदमिति । तत्कस्य हेतोरित्याशङ्क्याह । अनिश्रितानि हौत्यादि । यस्मादेतानि ज्ञानलक्षणानि तत्त्वतोऽनुत्पादरूपत्वान्न क्वचित् प्रतिबद्धानि, तस्माद्यथोक्तस्वभावानौति वाक्यार्थः । धर्मताऽविकोपनार्थमाह । नैतानि लक्षणानौत्यादि । चालयितुमिति विकोपयितुम् । तथैव तत्कस्य हेतोरित्याशङ्क्याह । सदेवमानुषासुरोऽपि हौत्यादि । एतल्लक्षण एवेति । अविकोपितमायोपमो धर्मतास्वभावः । असंस्कारज्ञानार्थमाह । नाप्येतानि लक्षणानि केनापि हस्तेन स्थापितानीति । असंस्कृतत्वादेव भावानामिति भावः । श्रविकल्पज्ञानं वक्तुमाह । यो देवपुत्रा इत्यादि । संस्कृतत्वे कथं न स्थापितमिति । तत्कस्य हेतोरित्याशङ्क्याह । असंस्कृतत्वादिति । श्रहेतुप्रत्ययसमुद्भूतत्वादित्यर्थः । प्रभेदज्ञानार्थमाह (p. 2741) । अथ खलु भगवंस्तानित्यादि । तथागतेन प्रकाशितत्वात् कथं