________________
व्यभिसमयालङ्कारालोकः ।
३४१
लोकस्य लोकं सन्दर्शयतीति । भावाभिनिवेशिनो लोकस्य मायोपमं लोकं कथयति । कल्पितपरतन्त्रपरिनिष्यन्नस्वभावानां मायोपमदर्शनाद्यथाक्रमं तथतां जानाति । अवितथतां जानाति । अनन्यतथतां जानाति । इति पदचयं वाच्यम् । तथतामभिसम्बुद्धः संस्तथागत इत्युच्यत इत्यनेन तथतापरिज्ञानमावेदितम् । कोऽच भगवन्नन्यो धिमोक्ष्यत इति । नैव कश्चिदनियतगोत्रादिरधिमुञ्चति । किं तर्हि विशिष्ट एव पुगल इत्याह । अविनिवर्तनीय इत्यादि । अभिसम्बुड्याख्यातानि इति । तथतासमाख्यानज्ञानमनेन निर्दिष्टम् । अक्षयाऽक्षयैवाख्यातेति । उत्पादादा तथागतानामनुत्पादादा तथागतानां स्थितैवैषा धर्माणां धर्मतेति वचनादश्या तथताऽक्षयत्वेन निर्दिष्टा । तथतावबोधादिज्ञानचतुष्टय मे कौहत्य निर्दिष्ट - मेवमतो ज्ञानलक्षणं सर्वज्ञतासङ्गृहीतं षोडशप्रकारं भवति । तथा चोक्तम् ।
तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके । सत्त्वानां चित्तचर्यासु तत् संक्षेपे बहिर्गतौ ॥ १४ ॥ अक्षयाकारतायाञ्च सरागादौ प्रविस्तृते । महहुते ऽप्रमाणे च विज्ञाने चानिदर्शने ॥ १५ ॥ अदृश्यचित्तज्ञाने च तदुमिञ्जादिसंज्ञकम् । पुनस्तथताकारेण तेषां ज्ञानमतः परम् ॥ १६ ॥ तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् । सर्वज्ञताधिकारेण ज्ञानलक्षणसङ्ग्रहः ॥ १७ ॥ इति