________________
३४०
हादशपारवतः।
रपरं सुभूते तथागत (p. 270, 21) इत्यादि। तथा सुभूते तथागतो रूपं जानाति, यथा। तथतेति (p. 271, 2) ।
“यः प्रतीत्यसमुत्यादः शून्यता सैव ते मता" इति । तथताकारेण रूपादिस्कन्धपरिज्ञानादन्मिञ्जितादौनामपि तथतापरिज्ञानमिति यावत्। सम्यक्सम्बद्धस्य तथतावबोधतत्परसमाख्यानप्रज्ञपनज्ञानञ्च कथयन्नाह । एवं हि सुभूते तथागततथतया च स्कन्धतथतया चेत्यादि। तथतां प्रज्ञपयतीति । सर्वधर्मानुयायिनों तथतामेकरू पेण व्यवस्थापयत्यनेन तथताप्रज्ञपनज्ञानमुक्तम् । तदेवाह । यैव चेत्यादिना। ननु धर्मिभिन्नत्वे कथमभेदस्तथताया इति। तत्कस्य हेतोरित्याशङ्कयाह। उक्तं होत्यादि। यस्मात् पञ्च स्कन्धा लोक इत्यादि। संज्ञाता संख्याता इति भगवता पञ्चस्कन्धः सर्वधर्मनिर्देशाधिकारे कथितम् । तस्मान्न लोकोऽन्यानित्यादिलक्षणो भिन्नः, केवलं सन्निहितविनेयप्रतिपत्त्यपेक्षया भिन्नधर्मित्वेनोक्तः । तदेव वक्तमाह। तस्मात्तीत्यादि। अनेकभावाभावापगतेत्यादि । तत्त्वतोऽनुत्यादरूपत्वेन वस्तुधर्मसमतिक्रमान्नैकत्वं नापि नानात्वमिति। शून्यतारू पेणैकैवैषा तथता सर्वधर्मव्यापिनौ घटपटादेरनेकम्माद्भावात्। प्रागभावादिलक्षणावाभावादपगता प्रयोगमार्गे। तथा दर्शनभावनाविशेषनिष्ठामार्गेषु च । यथाक्रममक्षयत्वादविकारत्वादद्वैधीकारत्वादेकैवैषा तथतेति योज्यम् । प्रज्ञापारमितामागम्याभिसम्बवेत्यनेन (p. 272, 1) तथतावबोधज्ञानमावेदितम्