________________
व्यभिसमयालङ्कारालोकः ।
चित्तोन्मिञ्जितादिज्ञानं कथयन्नाह । उन्मिञ्जितनिमिञ्जितानीत्यादि । तच विधिमुखेन यः स्वविषये चित्तप्रसरः सोऽयमुन्मज्ञ्जः । प्रतिषेधमुखेन विषयान्तराचित्तस्यापसर्पणं निमिज्ञ्जः । तत्सच्या तत्वादु निमञ्जितनिमिञ्जितानि । लौकिकलोकोत्तरप्रसिद्धिभेदात्परसत्त्वानां परपुद्गलानामिति इयमुक्तम् । रूपनिश्रितानीत्यादि । सर्वाण्येव विधिप्रतिषेधमुखेन रूपादिपञ्चस्कन्धाश्रितान्युत्पद्यन्ते चित्तानौत्यर्थः । तदेव कथयन्नाह । भवति तथागत इत्यादि (p. 269, 7) । मरणादुत्तरकालं तथागतो भवति । तिरोभावरूपेणावस्थानात् किमिति कांक्षाप्रश्नकरणात् । सांख्यप्रम्भृतौनां रूपादिगतोऽयमुनिमज्जितविकल्पः । तथैव सर्वात्मना निरन्वयविनाशान्न भवतीति लौकायतिकानां निमिञ्जितविकल्पः । अवस्थातुरेकत्वादवस्थायाश्च भिन्नत्वाद्यथाक्रमं पूर्ववद्भवति न भवतौति दिगम्बरप्रभृतीनामुभय विकल्पः । तत्त्वान्यत्वरूपेणावाच्यत्वान्न भवति न न भवतीति पुगलवादिनामुभयप्रतिषेधाधिष्ठानो विकल्पः । एते च विकल्पास्तत्त्वतोऽनुत्पन्नत्वाद तथ्यसंरतिभाविन्यात्मस्वभावे तथागते न कथञ्चित् प्रतिष्ठां लभन्ते । तथा शून्यता देशनायामविनेयजनापेक्षयाऽवस्थापनीयप्रश्रत्वेन व्यवस्थापिताः प्रदेशान्तरे । एवं शाश्वत आत्मा चेत्यादयोऽवगन्तव्याः । पर्षन्मण्डले तस्मिन् यथोक्तप्रभेदात्मदृष्ट्युपेतानां सन्निहितविनेयजनानामाश्यानुरोधादेव
तावत्प्रभेदोपादानम् । तथताकारज्ञानं वक्तुमाह । पुन
३३८.