________________
३३८
हादश परिवर्तः। दुद्दत्वावस्थायामिव पृथग्जनावस्थायां प्रकृतिवयवदानिकस्वभावेन सर्वरूपादिनिमित्तापगमान्निष्यपञ्चान्येवं तत्त्वतो निरुत्तराणि चित्तानि। असमसमानि होत्यादि (p. 267, 2) उत्पादादिदोषवैषम्यादसमेन ग्राह्येण समानि तवाहकत्वेन प्रहत्तानि चित्तानि विक्षेपादकृतसमाधानत्वेनासमवहितान्येवमसमाहितानि। समसमानि होत्यादि। सर्वदोषवैषम्यानुपपत्तेः समो धर्मधातुस्तेन सहानुत्पादादिना तुल्यत्वात् समानि। विक्षेपात्कृतप्रतीकारत्वेन समवहितानि। तत्त्वतोऽविद्यमानस्वभावत्वेनाकाशसमान्येवं समाहितानि। स्वभावविमुक्तानीत्यादि। न्यायानुयायिजन्मरहितत्वात् स्वभावविमुक्तानि चित्तान्यविद्यमानसत्तारूपत्वादभावस्वभावानि। ततश्च बन्धापनयनपूर्वकमोक्षाभावादविमुक्तानि चित्तानि। चित्तं होत्यादि (p. 268, 4)। यस्मादेकानेकस्वभाववैधुर्येणासत्त्वाच्चित्तं
कालिकं तथागतेनानुपलब्धं, तस्मात् प्रकृत्या द्विविधावरणविगमाविमुक्तानि। प्रभेदं निर्दिश्य चित्तज्ञानं वक्तुमाह। अदृश्यानि चित्तानौत्यादि। असत्त्वात् सुभूतेऽदृश्यमिति। लक्षणशून्यत्वेनासत्त्वाददृश्यं कल्पितं चित्तम्। हेत्वभावेनाभूतत्वादविज्ञेयं परतन्त्रम्। स्वरूपाविद्यमानत्वेनापरिनिष्यन्नत्वादग्राह्यं परिनिष्यन्नं चित्तम् । प्रत्येकं प्रज्ञाचक्षुरादिभिस्त्रिभिः सम्बन्धनीयम्। पञ्चानां वा बुद्धधर्मचक्षुरादौनामनवभासगतत्वाददृश्यादिकमवगन्तव्यम् । एवं हि सुभूते प्रज्ञापारमितेत्युपसंहारपदम् । संक्षिप्तचित्तज्ञानादिहारकान्तेऽपि प्रत्येकं सम्बन्धनीयम् ।