________________
अभिसमयालङ्कारालोकः।
३३०
अनिदर्शनचित्तज्ञानं प्रतिपादयन् पूर्ववद्धारकद्दयमाह । सनिदर्शनानि चित्तानौत्यादि। समदर्शनानि सुभूते तानि चित्तानि चित्तस्वभावानौति । मायोपमात्मसंवेदनतया ममदर्शनानि तत्तुल्योपलम्भरूपाणि मर्वाण्येव ज्ञानानि । कुशलाकुशलवासनाभिश्चितत्वाच्चित्तस्वभावानि सञ्चितवासनारूपाण्येवं सनिदर्शनानि। अलक्षणत्वादित्यादि (D. 265. 4)। तत्त्वतो वर्तमानस्वरूपविरहेणालक्षणत्वादतोतानागतरूपाभ्यां सह यथाक्रम कार्यकारणसम्बन्धानुपपत्त्याऽर्थविविक्तत्वात् त्रयाणां मांसादिचक्षुषां मर्वेषां वा पञ्चानामविषयत्वेनानवभासगतमदृश्यं चित्तमेवमनिदर्शनानि । यथोक्तज्ञानमेवमप्रतिघादित्वेन कथंचिद्यात्त्योच्यत इति प्रतिपादयन् सप्रतिघानि चित्तानीत्यष्टौ हारकानाह । असत्सङ्कल्पितानि इत्यादि। असताऽविद्यमानेनोत्पादादिरूपेण संकल्पितान्यध्यारोपितानि चित्तानि शून्यान्यस्वभावानि, आरम्बनवशिकानि, संस्त्याऽलम्बनपरतन्त्राण्येवं प्रमाणबाधितत्वात् सप्रतिघानि । अदयभूतानीत्यादि। उत्पादानुत्यादरहितत्वेनाइयभूतानि। तत्त्वतोऽभवनमेव संस्त्या भवनमित्यभूतसम्भूतान्येवं प्रमाणोपपन्नत्वादप्रतिघानि। या सुभूते सोत्तरस्येत्यादि (p. 266, 8)। आत्माद्यभिनिवेशेन सोत्तरस्य न्यूनावस्थां प्राप्तस्य चित्तस्य या यथाभूतता नैराग्यसंवेदनता न तत्रास्ति मन्यमानता सत्कायादिदृष्ट्यपलम्भता । तस्मादेवं संरत्या सोत्तराणि । अण्वपि होत्यादि। यस्मात्परमार्थतोऽणुमात्रमपि चित्तं वस्तुस्वरूपं नोपलब्धं, तस्मा
43