________________
द्वादशपरिवर्तः ।
निबन्धनमिति । तत्कस्य हेतोरित्याशङ्क्याह । अतो हि सुभूत इत्यादि । तच कृतज्ञाः प्रत्युपकारकरणात् । कृतवेदिनोऽल्पस्याप्युपकारस्य महत्त्वेन स्मरणात् । यानं महायानं प्रतिपद्दर्शनादिमार्गः । अनुगृह्णीतेऽनुपरिपालयतौति (p. 275, 2) । तयोरेव यथाक्रमं वर्णवदनात् । अकृतकज्ञां वक्तुमाह। पुनरपरं सुभूते तथागतेनेत्यादि । तच कारकहेतोर सत्त्वादकृताः । विनाशहेतोरभावेनाविकृताः। संस्कृतस्वरूपविरहादनभिसंस्कृताः । सर्वत्रगज्ञानं कथयन्नाह । प्रज्ञापारमितां हौत्यादि । एवं सर्वधर्मेषु ज्ञानं प्रवृत्तमिति । श्रकृतकत्वाद्यवगमेन ज्ञानमुत्पन्नम् । तत्त्वतोऽनुत्पन्नत्वे भावानां कथं दृश्यदर्शकदर्शनमित्याह । यदा भगवन्नित्यादि । तत्र मनोविज्ञानेन परिच्छेदाभावादजानकाः । चक्षुरादिविज्ञानेनोपलम्भविरहादपश्यकाः । निर्युक्तिक एवायमनुवाद इत्याह । कथवे - त्यादि । यस्मात्सर्वधर्मास्तत्त्वेनोत्पादाभावाच्छून्या ग्राह्यग्राहकसम्बन्धानुपपत्तेर निश्रितास्तस्मादजानका अपश्यका इत्यर्थः । प्रज्ञापारमितां चागम्येत्थंभूतधर्मावबोधेन लोकस्यादर्शनमेव दर्शनं तत्त्वतः । संवृत्या तु यथाप्रतीतमेवेति भावः । अदृष्टार्थदर्शकज्ञानं निर्दिशन्नाह । रूपस्यादृष्टत्वादित्यादि । रूपाद्यदर्शनमेव लोकस्य तत्त्वतो दर्शनमिति भावः । तदेवाह । कथं भगवन्नित्यादिना (p. 276, 4 ) । न रूपालम्बनमिति । न रूपादिनिर्भासं सैव लोकस्य दृष्टतेति सर्वमिति न जानाति । सच्च सदिति
३४४