________________
३३४
द्वादशपरिवर्तः।
यथायोगं विविधसंस्कृतलक्षणासम्भवादनिरोधमनुत्पादमस्थितमतो धर्मिरूपत्वायोगादनासवं प्रमातुमशक्यत्वेनाप्रमेयं धर्मधातुवद्विनाशानुपपत्तेरक्षयं भवति । तथागतस्य येनैवं चित्तेनाकाशमिवाप्रमेयाक्षयतया सर्वसत्त्वानां चित्ताप्रमेयाक्षयतां स्वसमाधिदर्पणतले प्रतिभासनाद्यथाभूतं प्रजानाति। सरागादिचित्तज्ञानं कथयन्नाह । संक्लिष्टानि चित्तानौत्यादि। असंक्लेशसंक्लिष्टानौति । भ्रान्तिमात्रास्तित्वात्। क्लेशकर्मजन्मलक्षणैः मल्लेशस्तत्वतोऽसंक्लेशैविपर्यासबलात् संक्लिष्टान्युपहतानि। असंकेतानौति। अप्रतिनियतत्तौनि। विगतरागादिचित्तज्ञानं निर्दिशन्नाह। असंक्लिष्टानि चित्तानीत्यादि। प्रकृतिप्रभास्वराणौति। पृथग्जनावस्थायामविशुद्धभ्रान्तिकारणनिर्जातत्वेन तथाभूतान्यपि चित्तानि नैःस्वाभाव्यात् प्रमाणोपपन्नानुत्पादादिरूपात्मावबोधपरायणत्वेन प्रतिपक्षोदयादप्यनिवानौति शक्यापनेयरागादिसहायत्वात्, प्रभास्वराणि परिशुद्धनिजस्वभावमात्राणि । सामान्येन मरागादिचित्तं वीतरागादिचित्तञ्च निर्दिश्यैवं तदपायं यथाक्रमं कथयितुं लौनानि चित्तानोत्या(p. 259, 7)दिकमेकं हारकम् । प्रगृहीतानि चित्तानोत्यादिकञ्च द्वितीयमाह । अनालयलौनानौति। अस्थानार्हेनालये समापत्त्यास्वादनादौ रागादिहेतुत्वेन लौनान्यभिनिविष्टानि । अग्राह्याणि सुभूते तानि चित्तानि न प्रग्रहौतव्यानि इति। तत्रोद्धतमौद्धत्याभिशङ्कि वा चित्तं संवेजनौयवस्त्वमनस्कारेण शमथनिमित्तेन। लोनं लयाभिशङ्कि वा