________________
अभिसमयालङ्कारालोकः ।
३३३
वस्तुधर्मस्वभावाभावे क्षणिकप्रबन्धानित्यते न भवतः। संस्त्या तु स्त इति भावः। सर्वसत्त्वचित्तचरितज्ञानं निर्दिशन्नाह । पुनरपरमित्यादि। प्रतिज्ञातार्थं समर्थयितुं प्रश्नयन्नाह। कथञ्च सुभूत इत्यादि। परिहरन्नाह । सत्त्वास्वभावतयेत्यादि। सत्त्वानां मायोपमस्वभावत्वादप्रमेयादिरूपेण परिज्ञानम्। उपसंहरन्नाह । एवं हि सुभूत इत्यादि (p. 257, 1)। अमुनैव विधिना तेषाञ्चित्तचरितपरिज्ञानमित्याह । यान्यपि तानौत्यादि। सत्त्वाऽसम्भवतयेति । सत्त्वस्य विद्यमानत्वस्य तत्त्वतोऽनुपलब्धेधर्मधातुरूपतयाऽप्रमेयादिरूपत्वेन सत्त्वानां चित्तचरितानि प्रजानाति। चित्तसंक्षेपज्ञानं कथयन्नाह । संक्षिप्तानि चित्तानीत्यादि। स संक्षेपं क्षयतः क्षयञ्चाक्षयत इति । तदालम्बनेन धर्मतायां प्रविष्टञ्चित्तं म संक्षेपं क्षयतो विनाशतः संहत्या जानाति । क्षयमपि विनाशं क्षयिणोऽसत्त्वात् परमार्थतोऽक्षयमविनाशं यथाभूतं प्रजानाति । चित्तविक्षेपज्ञानं गदितुमाह । विक्षिप्तानि चित्तानोत्यादि। धर्मतात इति। धर्मधातोरनुत्पादस्तदमनसिकारेण बहिः प्रत्तानि चित्तानि विक्षिप्तानि संहत्या । परमार्थतः पुनरलक्षणानि स्वभावविरहितानि लक्षणानित्यत्वेनाक्षीणानि प्रबन्धोपरमादविक्षौणानि बहिर्गमनासम्भवादविक्षिप्तानौति यथाभूतं प्रजानाति। चित्ताक्षयाकारज्ञानं वक्तमाह। अप्रमेयाक्षयाणि चित्तानोत्यादि (p. 258, 5) । अधिष्ठितमिति । महाकरुणया आसंसारमधिष्ठितं तच्चित्तं