________________
३३२
द्वादशपरिवर्तः।
विरुद्धम्। न चैकविज्ञानभासनादेषामैक्यमेकदेशत्वं वा प्रसज्यते। तेन नैकविज्ञानभासित्वमेषां विरोधः। दृष्टञ्च विरुद्धानामपि सतामेकज्ञानभासनम् । यथा शुच्यशुचिनोश्चक्षुर्विज्ञानेन परस्परपरिहारस्थितलक्षणयोरहेमयूरस्य च सहानवस्थायिनोयुगपग्रहणम् । स्यादेतत् । यदि विरुद्धानामप्येकविज्ञानावभासनमविरुद्धम् । एवं सति सुखदुःखयो रागद्वेषयोर्वा किमेकविज्ञाने वेदनं प्राणभृतां स्वसन्तानेनोत्पद्यत इति। यत् सुखादीनां सकदवेदनं तत्कारणाभावेनानुत्पत्तेरसन्निहितत्वात् सुखादीनां न तु विरुद्धत्वादित्यवसातव्यम् । यथा चातीतानागतवस्तुग्रहणं तथा प्रागेव प्रतिपादितम् । अथवा वर्तमानस्येव साक्षात् पारंपर्येण वा तदुपकार्योपकारकस्वभावस्य प्रतिपत्त्यैवातीतानागतयोः प्रतिपत्तिः। विविक्तभूतलप्रतिपत्त्यैव घटादेरभावप्रतिपत्तिवत्। न चैवं सत्यानुमानिको भगवान् लिङ्गाभावात् । सर्वविशेषयुक्तस्यैव वर्तमानस्य प्रत्यक्षत्वेन तयोः प्रत्यक्षत्वादित्यलमतिप्रसङ्गेन। जनयित्रीत्वं स्पष्टयन्नाह। अतो निर्याता होत्यादि (p. 255, I) एवं सर्वज्ञतायाश्च सन्दर्शयिचौति जनयित्रौत्वेनैव सर्वज्ञतायाश्च प्रतिपादिका। लोकज्ञानं प्रतिपादयन्नाह। यद्भगवानेवमाहेत्यादि। न लुज्यन्ते न प्रलुज्यन्त इति (p. 156, 7)। क्षणिकप्रबन्धानित्यताभ्यां यथाक्रमं न नश्यति न प्रणश्यतीत्यर्थः । वस्तुधर्मस्वभावत्वात् कथं तौ न भवत इति । तत्कस्य हेतोर्न लुज्यन्ते न प्रलुज्यन्त इत्याह। शून्यतास्वभावा होत्यादि। तत्त्वतोऽस्वभावत्वात्। स्कन्धानां शून्यादित्वेन