________________
व्यभिसमयालङ्कारालोकः ।
भवेत्, येनान्तवत्त्वं स्यात् । यदि नाम प्रतिभासमानादन्यन्नास्तौत्येवं परामर्शो जातस्तथापि नान्तवत्त्वप्रसङ्गः । तथाहि यदि प्रतिभासमानमन्तवदेव निर्विकल्पे सर्वज्ञचेतसि प्रतिभासेत, तदा तत्पृष्ठलब्धेन परामर्शचेतसःऽन्तवत्त्वं भावानां व्यवच्छिद्येत । तद्यवच्छेदाच्चानन्तत्वहानिर्भवेत् । यावता प्रतिभासमानं वस्तु सार्वज्ञे चेतस्यनन्तमेव प्रतिभासेत, सर्वस्याप्रतिहतशक्तिकत्वात् । तस्मादन्यदप्रतिभासमानमन्तवदेव तस्यैव च परामर्शचेतसा व्यवच्छेदः क्रियत इति सुतरामेव भवताऽनन्तत्वं भावानामुपपादितमिति यत्किञ्चिदेतत् । ये पुनः सर्वमेव योगिज्ञानमनालम्बनं सत्यस्वप्नदर्शनवद्यस्त्वसंवादितया प्रमाणमिति प्रतिपन्नास्तान् प्रत्यन्तवत्त्वचोद्यं दूरीकृतावकाशमेव । स्यादेतद्योगिनामनासवं ज्ञानं शास्त्रे सामान्यविषयमेवोपवर्ण्यते, न तु स्वलक्षणविषयम् । तत्कथं सामान्य - विषयेण योगिनो ज्ञानेन भावानां स्वरूपाण्येवावबुध्यन्त इति चेत् । तदेव हि स्वलक्षणं विजातीयव्यावृत्तमभिन्नाकारप्रत्ययहेतुतया शास्त्रे सामान्यलक्षणमित्युच्यते ।
तस्ताहकं योगिज्ञानं भावनाबलेन स्फुटप्रतिभासमुत्पद्यमानं स्वलक्षणगोचर मेवेत्यविरुद्धमेतत् । यत्सामान्यगोचरं तत्कथं स्वलक्षणग्राहि भवतीति । कथं परस्परविरुद्धानामेकज्ञानेन ग्रहणमिति चेत् उच्यते । यद्यपि भावाः केचित् परस्परं विरोधिनस्तथापि ते ज्ञानेन सहाविरुद्धा एव । युगपदेकेनापि ज्ञानेन विरुद्धानेकार्थग्रहणोपलम्भात्। तथाहि ये परस्पर परिहारेण स्थितलक्षणास्तेषामैक्यं विरुद्धम् । ये तु सहानवस्थायिनस्तेषामेकदेशावस्थानं
३३१
-
-
-