________________
दादशपरिवर्तः ।
विरोधात्। एकस्यानेकाकारत्वं विरोध एवेति चेत् । न। आकाराणामसद्भूतत्वात् । यदि कस्य पारमार्थिका आकारा भवेयुः, तदा स्यादेकस्य चिचत्वविरोधः । यावता - Sमत्यभूता एवाकारा इतौष्टम् । यद्येवं भ्रान्तज्ञानसमङ्गित्वात्, भ्रान्तः प्राप्नोति सर्वज्ञ इति चेत् । न । यथाभूतपरिज्ञानाददोष एषः । यदि ह्यसत्यं सत्यत्वेन गृह्णीयात्तदा भ्रान्तः स्यात् । यदा त्वभूतानाकारान सत्यत्वेनैव जानाति, तदा कथं भ्रान्तो भवेत् । अर्थव्यतिरिक्तज्ञानारुढाकारग्रहण मत्यर्थेषु दृष्टादिव्यवहारं कुर्वन् कथमभ्रान्त इति चेत् । न । सम्यगुपायपरिज्ञानात् । यदि ह्युचितं ग्रहणोपायमपास्योपायान्तरेणा मुख्येनार्थं गृह्णीयात्तदा भ्रान्तो भवेत् । श्यावता साकारज्ञानवादिपक्षे ज्ञानस्यात्माकारानुभवव्यतिरेकेण नान्योऽर्थग्रहण व्यापारोऽस्ति । तत्कथमुचितेनार्थोपाधिभेदेन ग्रहणव्यापारेणार्थं गृह्णन् भ्रान्तो भवेत् । अतो जेयवदेकचेतसापि ज्ञानस्यानन्तवस्तुगताकारोपग्रहणोत्पत्तेरनन्तं वस्तु तेन व्याप्तमित्युच्यते । येनैव चात्मना ज्ञानात्मनि भावाः समारोहन्ति तेनैव तत्पृष्ठभाविपरामर्शचेतमा वा परिच्छिद्यन्ते । न च सर्वज्ञचेतसि परिमितभेदानुगताः समारोहन्ति भावाः । किं तर्हि यावत्किंचिदस्तित्वमनुभवति तत्सर्वमेव समारोहति । सर्वस्यैव सर्वज्ञज्ञानोत्पादनं प्रत्यालम्बनभावेनाप्रतिबद्धशक्तिकत्वात्, मनोविज्ञानस्य च सर्वार्थविषयत्वात् । अतः सार्वज्ञस्य चेतसः परिमितवस्त्वाकारोपग्रहणानुपपत्तेः । पृष्ठलब्धेन वा शुद्धलौकिकेन परामर्शप्रत्ययेन देशपर्यन्तं वर्तित्वेनापरिच्छेदात् कथमियन्त इति परिच्छेदो
३३०