________________
व्यभिसमयालङ्कारालोकः ।
विभाग इष्यते । तस्य सर्ववस्तुविषयत्वात् । यतो न तन्नौलस्यैव संवेदनं पौतस्यैव वापितु सर्वस्यैवेतौष्टम् । यस्य ह्यग्दर्शनस्य ज्ञानं प्रतिनियतार्थविषयग्राहि निराकारज्ञानपक्षे तस्य सर्वत्राविशेषात् प्रतिकर्मविभागानुपपर्त्तिदोष उच्यते, तथा हि नौलस्येदं वेदनम्, न पौतस्येति नियमाभावात्, सर्वस्य पृथग्जनस्य सर्वज्ञत्वप्रसङ्गापादानं क्रियते । सर्वज्ञस्य तु तदिष्टमेवेति । तस्य किमनिष्टमापद्यताम् । तेन सर्वज्ञावस्थायां निराकारं योगबलेनोत्पद्यमानमविरुद्धमेव । विभागेन हेयोपादेयवस्तुपरिज्ञानं न स्यादिति चेत् । तदपि न । यदि हि युगपदनन्तवस्तुनि प्रतिभासमाने हेयोपादेयवस्तुनः प्रतिभासविरोधः स्यादविरोधे वाऽन्यैः सह भासमानस्य तस्य हेयोपादेयवस्तुनस्तत्त्वप्रच्युतिः स्यात्, अप्रच्युततत्त्वस्यापि विभागेनावभासं वा न स्यात् विभक्तावभासस्यापि यदि परिच्छेदकः शुद्धलौकिको विमर्शप्रत्ययो वा पृष्ठभावी नोत्पाद्यते, तदैतत्सर्वं स्याद्दक्तुम् । यावता विश्वस्मिन् जगत्यवभासमाने तदपि हेयोपादेयं वस्तु | अविरुद्धप्रतिभासमप्रच्युतात्मतत्त्वं विभक्तमेवावभासते, पश्चात् सर्वज्ञज्ञानबलात्पन्नशुद्धलौकिकप्रत्यवमर्शप्रत्ययेन परिच्छिद्यत एवेति । कथं विभागेन तदपरिज्ञानं नाम । तदेवं निराकार - ज्ञानपक्षे तावदचोद्यमिति प्रतिपादितम् । अथ साकारज्ञानवादिपक्षे चोद्यते । तत्राप्यविरोध एव, तथा हि यथैव तदनन्तं वस्त्वनन्ताकारानुगतमात्मसत्तामनुभवति, तथैव तत्सार्वज्ञं चेतोऽपरिमितवस्तुगताकारोपग्रहेणोत्पाद्यमानमविरुद्धमेव । एकस्य ज्ञानस्यानेकवस्त्वाकारोपग्रहणोत्पत्त्य
9
३२६