________________
३२८
द्वादशपरिवर्तः ।
नैकोऽपि सर्वज्ञज्ञानादिविदितस्वरूपः सत्तामनुभवति, अपि तु सर्व एव सर्वज्ञचेतसा विदितस्वरूपा एवोदयन्ते व्ययन्ते च। नैकोऽपि परित्यक्त इत्ययं सकलग्रहणस्यार्थः। इयमेव च तेषामेकज्ञानेन व्याप्तिः। अन्यथा सकलशब्दवाच्यत्वमपि तेषां नाङ्गोकर्तव्यम् । माभूदन्तवत्त्वप्रसङ्ग इति यत्किञ्चिदेतत्। यथोक्तमेकनानारूढाभावादन्यो नास्तीत्येवं परिच्छेदात्कथमन्तवन्तो न भवेयुरिति । तदप्यसम्यक् । न हि निराकारज्ञानवादिपक्षे ज्ञानात्मनि भावानामारोपणमस्ति, अपि तु सत्तामात्रेण तेन ते वेद्याः। नापि भावानां ज्ञानापरिच्छेद्यस्वभावतयाऽनन्तमभ्यपेतं, येन ज्ञायमानतया तेषामन्तवत्त्वं प्रसज्यते। किन्तु देशवितानापर्यन्ततयाऽनन्तो भाजनलोकः। सत्त्वलाकस्तु संख्यानापर्यन्तयापि । न च देशावस्तम्भाद्यपर्यन्तत्वे सति ग्राह्यत्वविरोधः कश्चिद्यनाग्राह्यता भवेत्। यदि पर्यन्ततया न गृह्णाति कथं सर्वज्ञः स्यादिति चेदत एव यत एवासौ पर्यन्ततया न गृह्णाति तत एव सर्वज्ञो भवति। अन्यथाऽनन्तवस्त्वन्तवत्त्वेन गृह्णन् भ्रान्तो भवेत्। तथाहि यदस्ति तदस्तित्वेन यन्नास्ति तन्नास्तित्वेन गृह्णन्सर्वविदच्यते। न च सत्त्वभाजनलोकस्य पर्यन्तोऽस्ति। तस्मात्पर्यन्तं गमनकृतमविद्यमानमसंविद्यमानतया गृह्णन्। सर्वज्ञज्ञानपरिच्छेदकृतं तु पर्यन्तं विद्यमानं विद्यमानतया पश्यन् कथमसर्वज्ञो नाम। स्यादेतत् । निराकारज्ञानपक्षे विषयग्रहणमनुपपन्नं सर्वचाविशिष्टत्वात्तस्य तेन प्रतिकर्मविभागानुपपत्तेः । अतो निराकारपक्षोऽनुपन्यसनीय एव सर्वदा तस्य दुष्टत्वादिति। तदेतदप्यसम्यक् । न हि सर्वज्ञज्ञानस्य प्रतिकर्म