________________
व्यभिसमयालङ्कारालोकः ।
तत्कस्य हेतोरित्याशङ्क्याह । एषा हौत्यादि । तत्रोत्पादनान्माता, संवर्धनाज्जनयिचौ । समुत्पादनात् सर्वज्ञताया दर्शfast | लोकस्य च सन्दर्शयित्रौ शून्यतादिरूपेणावगमात् । अत्र केचित् स्वयूथ्या एवं चोदयन्ति । यदि युगपदेकज्ञानक्षणेन निःशेषं ज्ञेयमण्डलं संहत्या व्याप्यते, तदा भावानामियत्तापरिच्छेदादनन्तत्वमभ्युपेतं बाध्येत । तथा ह्येकज्ञानारूढाङ्गावादन्यो भावो नास्तीत्येवं परिच्छिद्यमानाः कथमन्तवन्तो न भवेयुरिति । तदेतदसारम् । यदि तावन्निराकारविज्ञानमाश्रित्यैवं चोद्यते, तदा सर्वममङ्गतम् । तथा हि यावत्किञ्चिद्दस्तुजातं सत्तामनुभवति, तस्य सर्वस्य सत्तामात्रेण सर्वज्ञचेतसः परिच्छेदात्तेन तद्यातमिति व्यपदिश्यते । न तु परैरेव घटनाद्देशापर्यन्ततया व्याप्तेः । न चैकेन ज्ञानेन परिच्छिन्नानोत्येतावता वस्तूनामात्मस्वभाव हा निर्येन तान्येकज्ञानपरिच्छेदवशादनन्तत्वमात्मस्वभावं जह्युः । न हि नौलपौतादयो भावा बहवो युगपच्चित्रास्तरणादिष्ठेकज्ञानक्षणावसौयमानतनवो ऽनेकत्वं विजहति । नापि परस्परं समन्वाविशन्ति । अपि तु यथैव ते मन्ति तथैव ज्ञानेन परिच्छिद्यन्ते, नान्येन रूपेण । तत्सत्त्वभाजनलोकोऽपि यथैव सत्तामनुभवति तथैव सर्वज्ञचेतसा गृह्यते। अपर्यन्त दिक्षु विदिक्षु सत्त्वादिलोकोऽवस्थित इत्यपर्यन्ततयैव तस्य ग्रहणं न तु पर्यन्त - वर्तितयेति । कुतोऽन्तवत्त्वप्रसङ्गः । स्यादेतत् । साकल्यग्रहणाभ्युपगमे कथं पर्यन्तग्रहणं न स्यादिति । नैतदस्ति । को ह्यत्र प्रतिबन्धो यत्र साकल्यग्रहणं तत्रावश्यं पर्यन्तग्रहणमिति । तथा हि यावन्तस्ते सन्ति भावास्तेषां मध्ये
३२७