________________
३२६
द्वादशपारवतः ।
तथागतानामुद्योगमेव दृष्टान्तेन स्पष्टयन्नाह । तद्यथापि नामेत्यादि (p. 253, 3) | अस्पर्शविहार इति । असुखविहारः । अमन आप इति । चित्तेनानभिप्रेतः । पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह । एतया हि वयमित्यादि । तच केनचिदाहाराद्युपस्तम्भेन सुधारितामन्येऽपि धारयेयुः । चौरादिभ्यो विहितरक्षत्वेन सुगोपितां गोपायेयुः । कायिकमलाद्यपनयनेन सुकेलायितां केलायेयुः । श्रापततो विद्युदादिपातात् । उत्पाततः सर्वोपसर्गिकरोगतः । अनिष्टनिपातोऽनिष्टवस्तुसम्भवः । दान्तिकार्थमाह । एवमेव सुभूत तथागता इत्यादि (p. 254, 4) । इह लेोकधातुस्था एव तथागता ग्राह्याः । यतोऽनन्तरं वक्ष्यति । asfy ते अन्येषु लेोकधातुष्ठित्यादि । अन्तरायं न कुर्यु - रिति । यथापूर्वोक्तन्यायेन पट्चत्वारिंशद्दोषान् न कुर्युः । तथैौत्सुक्यमापत्स्यन्त इति पूर्वेण सम्बन्धः । तथा चोक्तम् ।
दोपा पद्विबोधव्याश्रतुर्भिर्दकैः सह ॥ १२ ॥
-
इति दोपानन्तरं यथासंख्यं गुणदोपादानत्यागेन प्रयोगा भावनौया लक्षणज्ञानपूर्वकमिति । प्रयोगाणां लक्षणं करणसाधनपरिग्रहेण ज्ञानविशेषकारिचस्वरूपं, कर्मसाधनपरिग्रहेण च स्वभावात्मकं वक्तव्यम् । तथा चोक्तम् ।
लक्ष्यते येन तज्ज्ञेयं लक्षणं विविधञ्च तत् । ज्ञानं विशेषः कारिचं स्वभावो यश्च लक्ष्यते ॥ १३ ॥ इति तत्र तावत् ज्ञानलक्षणं त्रिसर्वज्ञताभेदेन भिद्यमानं सर्वज्ञताद्वारेण तथागतनिर्हतिज्ञानं कथयन्नाह । एवं हि सुभूते तथागता इत्यादि । निर्युक्तिकमेवेदमिति ।