________________
अभिममयालङ्कारालोकः ।
३३५
चित्तं प्रमोदनीयवस्तुमनस्कारेण प्रग्रहनिमित्तेन। समप्राप्त चित्तमनाभोगमनस्कारेणोपेक्षानिमित्तेन च गृहीतमित्येवं विरागादिहेतुत्वेन प्रगृहीतानि चित्तानि। पुनरग्रहणाहत्वेनाग्राह्याणि । भूयो न प्रग्रहौतव्यानि। तयोरेव चित्तज्ञानयोः सामान्येन पर्यायं कथयन् यथाक्रमं साखवाणि चित्तानीत्यादिकच्चापरं हारकमाह। अस्वभावानि सुभूते तानि चित्तानि, असत्संकल्पानौति (p 260, 3)। सासवाणि चित्तानि प्रतिपक्षोदयान्निवय॑त्वेनाविद्यमाननिजस्वभावानि। ततश्चासत्तातुल्यानि । अभावगतिकानि सुभूते तानि चित्तानि। अनाभोगानौति। अनास्त्रवाणि चित्तानि दर्शनभावनाहेयनशानामभावपर्यवसानानि । ततश्च स्वरसेन परिशुद्धसन्तानप्रवर्तनादनाभोगानि । तयोरेव पुनः प्रभेदं वक्तुं पट् सरागाणौत्यादि हारकानाह। या चित्तस्य सरागतेत्यादि। या चित्तस्य सरागता विषयादिसक्तिरूपता पृथग्जनस्य न सा चित्तस्य यथाभूतता न्यायतो मायोपमस्वप्रकाशरूपता भवति । शक्याशक्यापनेयत्वेनानयोर्यथाक्रम चलाचलरूपत्वात्। तथार्याणां प्रतिपक्षभावनया चित्तस्य या यथाभूतता अनासवरूपता न सा सरागता तत्प्रतिपक्षरूपत्वात् । तस्मादशुद्धावस्थायां सरागाणि चित्तानि संस्त्या। यः सुभूते चित्तस्येत्यादि (p. 201, 5)। यश्चित्तस्य विगमो रागविगमावस्था पृथग्जनस्य न सा चित्तस्य सरागताऽरागावस्थतयोभिन्नरूपत्वात् । तथा या वीतरागस्य विष्कम्भणा दिप्रहाणेन प्रहौणरागस्य चित्तस्य यथाभूतता तदिवितात्मसंवेदनता न सा चित्तस्य