________________
अभिसमयालङ्कारालोकः।
३२३ चारिका विमुखतां करिष्यन्ति । पूर्व बाहुल्येन श्रावणिक पश्चादेशिकं नियम्य वैधुर्यमाख्यातम् । इदानौं पुनः पूर्व दैशिकं पश्चात् श्रावणिकं नियम्य वैधुर्यमुच्यतेऽन्तरायानुपूर्व्यनियमज्ञापनार्थम् । तत्र एकाकिपर्षदवचरत्वार्थमाह। पुनरपरं सुभूते येऽपि भिक्षवो धर्मभाणकास्त एकाकिताभिरता भविष्यन्ति । येऽपि धार्मश्रवणिकास्तेऽपि पर्षगुरुका भविष्यन्तौति। अनुबन्धकामानवकाशदानत्वार्थमाह। तेऽपि धर्मभाणका एवं वक्ष्यन्तीत्यादि। अनुभत्स्यन्तौति। अनुबन्धयिष्यन्ति। न चावकाशं दास्यन्तीति। प्रज्ञापारमितां दास्यामौत्युक्त्वा तहानाय नावसरं करिष्यन्ति। आमिपकिञ्चित्काभिलापतददातुकामतार्थमाह। स च धर्मभाणक इत्यादि। ते च न दातुकामा इति । अर्थश्रावणिका न दातुकामाः। जीवितान्तरायदिग्गमनार्थमाइ। तेन तेन गमिष्यतीत्यादि (p. 247, 1) । दुर्भिक्ष इति भक्तरहितत्वेन दुष्यापभिक्षः । अयोगक्षेम इति । इष्टावाप्तियोगः निरुपद्रवत्वं क्षेमः । तदभयाभावादयागक्षेमः। जीवितेन्द्रियनिरोधाज्जीवितान्तरायः। तस्मिंश्च प्रदेशे जीवितान्तरायोऽपि भवेदिति। अनन्तरायां दिशं गच्छेयुभवन्त इति शेषः। इति चतुर्थं दशकम् । दर्भिक्षदिग्गमनागमनार्थमाह। स च धर्मभाणकस्तानित्यादि। कच्चिदिति कदाचित्। नानुभत्स्यन्तौति नानुगमिष्यन्ति। चौराद्याकुलितदिग्गमनागमनार्थमाह । पुनरपरं सुभूते इत्यादि। तत्र जन्तुदृश्चिकादिः। दृष्ट