________________
३२२
एकादशपरिवर्तः ।
हारकेणोक्तम् । तथा हि भाषितुकाम इत्यनेन सत्त्वानुग्रहाशयतया पट्पारमितासमन्वागमः। अच्छन्दिक इत्यनेन च वैरूप्याशयतया दानादिवियोगः। कथित इति तृतीयं दशकम् । उपायकौशलानुपायकौशले धारणीप्रतिलभाप्रतिलम्भौ लिखितुकामताऽलिखितुकामतौ विगताविगतकामादिच्छन्दत्वे च श्रावणिकमादिं कृत्वा प्रतिपादयन्नाह। पुनरपरं सुभूत इत्यादि। मिद्धादिगुरुकत्वेनाश्रोतुकामतया श्रावणिकस्य प्रतिषेधविषयं ममन्वागमादिकं दैशिकस्य च भापितुकामत्वेन ममन्वागमादिकमप्रतिषेधविषयमुक्तं वेदितव्यम् । यथोक्तमेवार्थ दैशिकमादिं कृत्वा निर्दिशन्नाह । पुनरपरं सुभूते धर्मभाणक इत्यादि। अपायगतिवैमुख्यार्थमाह। पुनरपरं सुभूते प्रज्ञापारमितायामित्यादि। एवं दुःख इत्यादि। आवौचिज्वालादिदुःखा नारकाः। परस्परभक्षणादिदुःखा तिर्यग्योनिः । क्षुत्पिपासादिदःखाः प्रेताः। विष्णुचक्रादिभयाः सर्वासुराः। जात्यादिदखाः सर्वसंस्काराः। इहैव दःखस्यान्तः करणीय इत्यनन्तरमेवं श्रुत्वा सत्त्वार्थनिमित्तमपायगतौ वैमुख्यं करिष्यन्तौति शेषः सुगतिगमनसौमनस्यार्थमाह। पुनरपरमित्यादि (p. 246, 2)। तत्राशाश्वतं प्रबन्धोच्छेदात्। अनित्यं क्षणिकानित्यतया। दःखं संस्कारदःखतायोगात्। विपरिणामधर्मकं विपरिणामदःखसम्भवादिति। तदेवं सर्वमशाश्वतमित्यादि। सर्व हि संस्कृतमनित्यमित्यादेर्व्याख्यानमित्यवसातव्यम्। संवेगमापत्स्यन्त इति। प्रथमफलादिसुगत्यभिलाषेण बोधि