________________
व्यभिसमयालङ्कारालोकः ।
I
त्यादि (p. 244, 4) | धर्मदैशिक श्रावणिकयोर्दातुकामदेशान्तरगन्तुकामत्वेन भिन्न विषयछन्दत्वात् । लाभगौरवाल्पेच्छता वैधुर्यार्थमाह । पुनरपरं सुभूते धर्मभाणकश्चामिषगुरुक इत्यादि । अनेनैव हारकेण योगायोगौ कथितौ । तथा हि तयोर्यथाक्रमं लाभादिकगुरुत्वेन धूतगुणायोगोऽल्पेच्छतादित्वेन च धूतगुणयोगी देशितः । कल्याणाकल्याणधर्मत्वार्थमाह । पुनरपरमित्यादि । तत्र कल्याणधर्मत्वेन श्रास्तद्वैपरीत्येनाश्राद्धः । अनेनैव हारकनिर्देशेन त्यागमात्सर्यमुक्तम् । तथा ह्यर्थं परित्यक्तुकाम इति श्रावकणिकत्यागः । न वा भाषितुकामः इति । दैशिकस्य मात्सर्यं विहितम् । अनेनैव च दानाग्रहणं कथितम् । तथा हि पूर्ववच्छ्रावणिकस्य दानं दैशिकस्य पुनरल्पेच्छता वेत्यग्रहणमावेदितम् । उद्घटितज्ञविपश्चितज्ञार्थमाह । पुनरपरमित्यादि। अर्थमवबोडुकाम इति । उद्घटितज्ञत्वेनार्थं प्रतिपत्तुकामः । धर्मान्तरायिकतयेति । सर्वधर्म प्रतिक्षेपसंवर्तनौयतया । न सम्भविष्यन्ति । पुस्तकादिरूपेण नावतरिष्यन्तौति । विपश्चितज्ञत्वेन तस्यावबोधमार्गं न गमिष्यन्ति । अप्राप्तधर्मभाणिन इति । अप्राप्तधर्मभाणकस्य । प्रतिवाणीति । न मया श्रोतव्यमिति प्रतिकूलवचनम् । स्वचादिधर्माभिज्ञाऽनभिज्ञार्थमाह । पुनरपरमित्यादि (p 245 8 ) । भाषितुकाम इति । चादिधर्माभिज्ञतया वक्तुकामः । अच्छन्दिक इति । तेषामेव स्त्रादिधर्माणामनभिज्ञतया श्रवणार्थमभिलाषरहितः । षट्पारमितासमन्वागमाऽसमन्वागमाविति । मारकर्मानेनैव
41
३२१
-