________________
३२.
एकादशपरिवर्तः।
विशिखाऽपणवौथी। शिविका याप्ययानम्। प्रियाप्रियव्यत्यस्तः प्रियाप्रियवियोगः। इतिकर्तव्यता सततकरणीयता। गुल्माक्षदर्शनं घटस्थाने पाशकादिदर्शनम्। शेषं सुगमत्वान्न विभक्तम्। लाभसत्कारश्लोकास्वादनं प्रतिपादयन्नाह। पुनरपरं सुभूते बोधिसत्त्वानामित्यादि (p. 242, 6) । लाभसत्कारश्लोकास्वाद इति। तत्र लाभो रत्नादिप्राप्ति सत्कारः श्रीपट्टबन्धनादिः। श्लोको यशस्तेषामनुभवनमास्वादः। अमार्गोपायकौशलमार्गणं वक्तमाह। पुनरपरं सुभूत इत्यादि। शून्यतादिप्रतिसंयुक्तेषु कथं न स्पृहेति । तत्कस्य हेतोरित्याशयाह । किच्चापौत्यादि (p. 243, 2)। द्वितीयं दशकम् । अमौ तावदस्य प्रवृत्तस्यान्तरायाः कथिताः । सम्प्रति पुनः प्रवृत्तेः पूर्वमेव विसामग्यो वक्तव्या इति । छन्दकिलासवैधुर्यार्थमाह । पुनरपरं सुभूते धार्मश्रवणिक इत्यादि। छन्द इत्यभिलाषसम्पन्नः। किलासौत्यालस्योपेतो वौर्यरहित इति यावत्। छन्दविषयभेदवैधुर्यार्थमाह। पुनरपरं सुभूते धार्मश्रवणिकग्छन्दिक इत्यादि। तत्राधिकारार्थप्रतिपत्त्या गतिमान् । तावन्मात्रार्थावगमान्मतिमान् । मेधायोगात् स्मृतिमान् । देशान्तरं क्षेपयत इत्यनेन श्रोतुश्छन्दविषयाहैशिकस्य भिन्नच्छन्दविषयत्वमावेदितम् । रूपमित्याद्युक्ते रूपादिस्कन्धापरिज्ञानान्नोद्घटितज्ञः । रूपणालक्षणं रूपमित्याद्यभिधाने तदर्थानवबोधान्न विपश्चितज्ञः। रूपं विधा विंशतिधेत्याधुच्चारेण तदर्थानवगमादनभिज्ञः। यथोक्तवैधुर्यमेव स्पष्टयन्नाह। पुनरपरं सुभूते धर्मभाणकश्चे