________________
अभिसमयालङ्कारालोकः ।
३१६
प्रमाणत्वेन हेतुफलानुरूपविपर्ययसूचनानैवेत्यर्थः। निरुत्तरभ्रंशं वक्तुमाह। तद्यथापि नाम सुभूते कश्चिदेवेत्याह। तत्र वर्णो गौरत्वादि। संस्थानं दीर्घत्वादिकम् । लक्षणादिसम्पत्तेजः। आकाशगमनादिकम्मृद्धिः। निमित्तमसाधारणं वस्तुनश्चिह्नम्। वर्णादिसादृश्यमानोपलम्भेन विप्रलब्धबुद्धित्वादप्रतिबलः। ननु श्रावकयानेऽपि तथागतत्वप्रापककरुणादिधर्मनिर्देशात् कथं तेन सर्वाकारज्ञता पर्येषणीयेति। तत्कस्य हेतोरित्याशङ्कयाह । धन्वको होत्यादि (p. 238, 13)। सर्वाकारानिर्देशानिर्दिष्टोऽप्यविशिष्ट इत्यर्थः। धर्मसम्भोगनिर्माणकायवयभ्रंशेन यथाक्रम चक्रवर्तिशतरसभोजनानघमणिरत्नदृष्टान्ताः। बहुविधविषयविकल्पप्रतिभानोत्पादं कथयन्नाह। पुनरपरमित्यादि (p. 240, 9)। चतुर्विधदोषप्रतिपादनार्थमाह । शक्येत्यादि। नो हौदमिति तत्त्वतो मायोपमज्ञानत्वादिति मतिः। लिखितेति मंस्यन्त इति। लिखनाभिनिवेशः । असतीति वेति। अभावाभिनिवेशः । अक्षरेषु वा प्रज्ञापारमितामभिनिवेक्ष्यन्त इति। अक्षराभिनिवेशः। अनक्षरेति। अनक्षराभिनिवेशः कथितः। जनपदादिमनस्कारं निर्दिशन्नाह। पुनरपरं सुभूते प्रज्ञापारमितायामित्यादि। तब देशो मगधादिः। एकगृहादिको ग्रामः। अष्टादशप्रकृतिवासो नगरम् । वणिग्बहुलस्थानविशेषो निगमः। चातुर्वाध्यस्तप्रदेशो जनपदः। चम्यादिविषयो राष्ट्रः। राज्ञामावासदेशो राजधानी। आख्यानं जातकमालादि। गुल्मस्थानं घटस्थानं परिष्कारविशेषः ।