________________
३१०
एकादशपरिवर्तः ।
संलपनमिति (p. 236, 4)। कायादिविवेकः। दृष्ट एवेत्यादि। प्रत्युत्पन्ने जन्मन्यनागतोत्यत्तिं प्रति हेतुमकृत्वा क्लेशेभ्यः स्वचित्तमपनीय प्रदीपवनितिं करोमि। ननु सर्वोपद्रवास्पदजन्मनिरोधे कथं प्रत्तिर्वार्यत इति । तत्कस्य हेतोरित्याशयाह। महायानसम्प्रस्थिता होत्यादि। महायानसंप्रस्थितत्वेन जगदर्थकरणाय कृतसन्नाहानामुपायकौशलबलेन जन्मसम्भवेऽप्युपद्रवाभावादित्यर्थः । अल्पोत्सुकतायामिति । तावन्माचसन्तोषो लाभसत्कारस्य बन्धनत्वेन कथमेवं निषिध्यत इति। तत्कस्य हेतोरित्याशङ्कयाह । लोकपरिणायका होत्यादि। एतदक्तम् । “आत्माभिनिवेशेनावग्रहे क्लेशवर्धनाल्लाभसत्कारो वर्धनम्। यदा तु दानादिभिः परानावगे पद्मवत्तवासक्तः सारथिभावेन लोकार्थकारी भवेत्तदा न कश्चिद्दोष इति। प्रथमं दशकं हेतुफलसम्बन्धभ्रंशं कथयन्नाह । ये च खलु पुनरित्यादि। एतदेव स्पष्टयन्नाह । तद्यथापि नामेत्यादि। पलगण्ड इति तक्षकः। पलगण्डान्तेवासौति तच्छिष्यः, वैजयन्तस्य प्रासादस्येति । सुमेरुतलमध्ये सुदर्शनं नाम नगरं सौवर्णम् । दैयेणार्धतीययोजनसहसप्रमाणमेकैकं पार्श्वम्। उच्छ्रयेण धर्धयोजनम् । तत्र नगरस्य मध्ये शक्रस्य वैजयन्तो नाम प्रासादो दैर्येणार्धतृतीययोजनशतप्रमाणमेकैकं पार्श्वमुच्छ्रयेण यथाशोभं वैजयन्तप्रासादः। चिरक्षिप्रभेदेन कर्तुकामो निर्मातुकाम इति पदद्दयम् । नो हौदमिति (p. 237, 4)। सूर्याचन्द्रमसोर्विमानाद्यथायोगं पञ्चाशत्सैकयोजनाद्वैजयन्तस्याधिक