________________
व्यभिसमयालङ्कारालोकः ।
ग्रहीष्यन्तौति । किमच कारणमिति । तत्कस्मादित्याशङ्क्याह । इमां हौत्यादि । हेतुभ्रंशं वक्तुमाह । पुनरपरमित्यादि । आहारिकामिति । उत्पादिकाम् । विवर्ज्योत्सृज्येति प्रयोगाश्याभ्यामिति वाच्यम् । परौत्तबुद्धय इति स्वल्पबुद्धयः। यथाभूतपरिज्ञाया मूलमिति सम्यग्धर्माव बोधस्य प्रधानं कारणम् । प्रशाखामिति श्रावकयानादिकम् । प्रणौतास्वादभ्रंशं निर्दिशन्नाह । तद्यथापि नामेत्यादि (p. 234, 4) । निर्युक्तिकमेवेदमिति । तत्कस्य हेतोरित्याशङ्क्याह । नहि तेऽल्पबुद्धय इत्यादि । कथं बुद्धवचनेsu श्रावकयानादौ प्रतिपत्तिर्निन्द्यत इति । तत्कस्य हेतोरित्याशङ्कयाह । न हि सुभूत इत्यादि । प्रतिषिद्धाचरणानिन्द्यत इत्यर्थः । दमयिष्यामः शमयिष्यामः परिनिर्वा पयिष्याम इति पदचयं प्रयोगदर्शनभावनामार्गेषु यथाक्रमं वेदितव्यम् । श्रावकप्रतिपत्तिं प्रतिषिध्य बोधिसत्त्वप्रतिपत्त्यर्थमाह । अपि तु खलु पुनरित्यादि । न च तैमन्तव्यमिति (p. 235, 4 ) । सर्वसत्त्वार्थं सर्वकुशलमूलाभिसंस्कारैर्नोत्कर्षः कार्यः । उत्तमयानभ्रंशं प्रतिपादयन्नाह । तद्यथापि नामेत्यादि । हस्तिनं लब्धेति । स्पर्शादिनोपलभ्य प्रकाशमित्यालेाकं । उपनिध्यायेदिति । निरूपयेत् । नो हौदमिति । हस्तिपदाद्वर्णसंस्थाने ग्रहीतुमशक्यत्वान्नैवेत्यर्थः। उद्देशभ्रंशं वक्तुमाह । तद्यथापि नाम सुभूते रत्नार्थिक इत्यादि । प्रमाणानवबोधान्नावगाहेत । नो हौदमिति । रत्नोद्देश महासमुद्रभ्रंशान्नैव पण्डितः । प्रति
३१७