________________
३१६
एकादशपरिवर्तः । __ गुणानन्तरं के पुनः प्रयोगान्तरायकरा दोषा येषां परिवर्जनेन प्रयोगा भावयितव्या इत्यन्तरायकरान् दोषान् वक्तुमाह । गुणा इमे भगवन्नित्यादि (p. 232, 2)। केचित् पुनरिति कियन्तः पुनरित्यर्थः । प्रतिवचनमाह। बहूनौति। तथापि कियबहु मारकर्म न ज्ञायत इत्याह । कियद्रपाणौति । कियत् संख्यावच्छिन्नस्वभावानि बहूनि। षट्चत्वारिंशदोषा इति प्रतिपादयन् कृच्छ्रप्राप्तिं तावदाह। तेषामित्यादिना। चिरेण प्रतिभानमिति। दीर्घकालेन मातरि ज्ञानोत्पादः। अत्याशुप्रतिभानतां वक्तुमाह । तदपोत्यादि। क्षिप्रतरोत्यादेन पौर्वापर्यानिरूपणाददृढीभूतं ज्ञानमुत्पद्यमानं विक्षेश्यते। प्रज्ञापारमितातो भ्रश्यते। कायदौष्ठुल्यं कथयन्नाह। ते विजृम्भमाणा इत्यादि। तत्र कायपरावर्तनादिजम्भयन्तः। महाट्टहासादिकरणावसन्तः। स्वेनाङ्गेन तत्प्रतिबड्वेन वा परापभ्रजनादुच्चग्धयन्तः इति वाच्यम् । चित्तदौठुल्यं प्रतिपादयनाह। विक्षिप्तचित्ता इत्यादि। अन्योन्यविज्ञानसमङ्गिन इति परस्परं समालम्बितरञ्जनौयवस्तुविज्ञानाः। अयोगविहितस्वाध्यायादितां निर्दिशन्नाह। परस्परमुपहसन्त इत्यादि। लिखिष्यन्तीत्युपलक्षणात् स्वाध्यायादिकं ग्राह्यम् । वैमुख्यनिमित्तग्रहितां कथयन्नाह । न वयमत्र गाधमित्यादि (p. 233, 2) । श्रुतचिन्तामयज्ञानाविषयत्वात् यथाक्रमं न गाधं नास्वादश्च लभामह इति योज्यम् । न नोऽत्रेति । नोऽस्माकम् । यावद्भिश्चित्तोत्पादैरप्रसादबहुलैरपक्रामन्ति, तावतः कल्पान् संसारस्य योगापत्तये