________________
३२४
एकादशपरिवर्तः ।
ग्रहो व्याडः, प्रेतादिरमनुष्याः, कान्तारं भयस्थानं, सरीसृपः सर्पः, मांसाशी यक्षादिः क्रव्यादः, प्रत्युदावय॑न्त (p. 248, 1) इति निवर्तिष्यन्ते। कुलावलोकनदौर्मनस्यार्थमाह । पुनरपरं सुभूते धर्मभाणको भिक्षुर्मिचकुलेत्यादि। उपसंहारार्थमाह। इति हि सुभूते मार इत्यादि। मारभेदप्रयोगं कारणप्रश्नेनाह। किमत्र भगवन्नित्यादिना। उद्योगमाप्सत इति । महायानादिभेत्तुं यत्नं करिष्यति । तथा चोपायेन चेष्टिष्यत इति। पूर्वोक्तप्रकारव्यतिरेकेणोपायेन विधार्थ यतिष्यते। कारणनिर्दिशन्नाह । प्रज्ञापारमिता निर्जाता होत्यादि (p. 249, 4)। प्रतिवर्णिकोपसंहारार्थमाह । पुनरपरं सुभूते मार इत्यादि । अपरस्त्रानुलोमनात्सूत्रागतम् । स्वस्मिन्नर्थविनिश्चयादिसूत्रे दृश्यमानत्वात्सूत्रपर्यापन्नम्। जननीसदृशसूचोपसंहारेण संशयोत्पादनात्संशयं प्रक्षेश्यति। कल्पितादिस्वभावत्रयापरिज्ञानादल्पबुद्धिकान् मन्दबुद्धिकान् परौत्तबुद्धिकानिति यथाक्रमं वाच्यम् । तदेव कथयन्नाह । अन्धोकतानिति । अयथाविषयस्पृहोत्पादनं वक्तमाह । पुनरपरं सुभूत इत्यादि। भूतकोटिं साक्षात्करोतीति (p. 250, 5) श्रावकनिर्याणमधिगच्छति। नियमादनेन तवाभिलापो जन्यत इति षट् दोषाः। कियन्तं मारकर्मप्रकारं निर्दिश्यापरमतिदिशन्नाह। एवं सुभूते मार इत्यादि। बहुप्रत्यर्थिकमहारत्नोदाहरणेन पूर्वोक्तमेव समर्थयन्नाह। एवमेतद्भगवन्नित्यादि। बहुप्रत्यर्थिकत्वे किं