________________
व्यभिसमयालङ्कारालोकः ।
यस्मात्तेषामाशयपरिशुद्धिं चित्तेन ज्ञात्वा वागनुमोदिता मया तथागतेन, तस्मात् प्रतिज्ञानुमोदनलाभे क्रमेण प्रयोगाभ्यासात् प्रतिज्ञायाथार्थ्य सम्पादनगुणोदयेनाशेषसत्त्वार्थकारिण इत्यर्थः । उदारफलपरिग्रहगुणं द्वादशं वक्तुमाह। एवञ्च ते कुलपुत्रा इत्यादि । उदाराधिमुक्तिका इति । गम्भौरोदारार्थाधिमोक्षेणेोदारफलपरिग्रहादुदाराधिमुक्तिकाः । सत्त्वार्थकरणसामर्थ्यलाभेन सत्त्वार्थप्रतिपत्तिगुणं त्रयोदशं निर्दिशन्नाह । तेष्वपि ते बुद्धक्षेत्रेवित्यादि । स्वज्ञानविषयातिक्रान्तदेशनया सञ्जातबहुमानत्वादाह । आश्चर्यमित्यादि (p. 229, 3 ) । अतौतादिधर्मेषु प्रहौणाशेषविपर्यासवासनस्यापि भगवतो यथादर्शनं संवृत्या ज्ञानं प्रवर्तत इति विस्मयः । यावदिति पर्यन्त - निर्देशादधर्मादिपरिग्रहः । चक्षुर्विज्ञानेनादृष्टम् । श्रोत्रविज्ञानेनाश्रुतम् । घ्राणविज्ञानेनाविदितम् । मनोविज्ञा नेनाविज्ञातम् । नास्ति किञ्चिदिति योज्यम् । दौष्ठुल्यवासना स्वभावानीन्द्रियाणि इति वचनादज्ञानस्वभावस्येन्द्रियस्य बुद्धत्वावस्थायां प्रहाणेन मनोबुद्धिवदिन्द्रियबुड्या विषयपरिच्छेदेन यस्मात् सर्वं विज्ञानं भगवतः सर्वविषयमिष्यते तस्मान्निर्मलतया चक्षुरादिज्ञाने नास्ति किचददृष्टादिकमित्यदोषः । तथा चेन्द्रियबुद्धिः पूर्वानुसारेण व्यवस्थाप्यत इत्यवसेयम् । मातुरलाभविकललाभ विपर्ययेण नियतिलाभगुणं चतुर्दशं प्रतिपादयन्नाह । ये च तस्मिन् काल इत्यादि । श्रन्वेषमाणानामित्यादि पदचयं प्रयोगाद्यवस्थासु योज्यम् । यदुक्तमाश्चर्यमित्यादि तत्
।
३१३