________________
दशमपरिवर्तः ।
।
साधूक्तमित्याह । एवमेतदित्यादि । धर्मतैषा यहुड्डा भगवन्तो मायोपमतया सर्वं प्रतिपद्यन्त इति । किमच कारणमिति यदुक्तं तत्परिहर्तुमाह । तस्मिन् खलु पुनरित्यादि । निर्युक्तिकमेवेदं भगवतोक्तमिति । तत्कस्य हेतोरित्याशङ्क्याह । तथा हि तैरित्यादि । अगवेषयन्तोऽपि लभ्यन्त इति । अविकल प्रज्ञापारमिताप्रापकपूर्वकुशलमूलसमन्वागमे प्रयोगाभ्यासेन नियतिलाभगुणोदयात्प्रास्यन्ते । यान्यपि च ततोऽन्यान्यपौति । ततः प्रज्ञापारमितातः सकाशाद्यान्यन्यानि समाधिराजादिस्वत्राणि । स्वयमेवेति । अनुकूलताप्राप्त्या कमकर्तृविवक्षावशादेवमुक्तम् । उपगमिष्यन्तौत्यादि पदचयं श्रुतादिज्ञानोदयभेदेन कल्पितादिस्वभावचयावबोधेन वा यथाक्रमं योज्यम् । पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह । एवमेतदित्यादि । धर्मतैषा यः प्रत्युत्पन्ने जन्मन्यपरित्यक्तवीर्यो ग्रन्थं सुम्मृगयतेऽर्थं च पर्येषते स स्वप्रकृतिपरित्यागाज्जातिव्यतिवृत्तोऽपि पूर्वकायविरहाज्जन्मान्तरव्यतिवृत्तोऽप्यपर
३१४
स्मिन्जन्मान्तरेऽप्यन्यजातिसंगृहीतोऽपि नियतिगुणलाभात् प्रास्यतौत्यर्थः । पदपरमत्वादाह । इम एवेत्यादि । नान्ये इति षट्पारमितारहिताः । किमिति काङ्क्षाप्रनः । साधारणकुशलमूलायत्तत्वात् सर्व एवोपपत्स्यन्त इत्याह । ये चान्येऽपौत्यादि । श्रन्येऽपीत्यषट्पारमिताप्रतिसंयुक्ताः । पूर्ववत् तत्कस्य हेतोरित्याशङ्क्य तथैवाह । एवं ह्येत