________________
दशमपरिवर्तः । रक्षन्ति देवता मन्त्रैः कुशले वर्तते मनः । व्याधयोऽकालमृत्युश्च दौर्भाग्यञ्च प्रणश्यति ॥ इति बह्वनुशंसान्मन्त्रचर्याभ्यासाच भेदयितुं न शक्यन्त इत्येके। मारेण पापौयसा सर्वप्रकारेणौषधिसामर्थ्यान्मन्त्रसाम
•च्च प्रज्ञापारमितातो निवर्तयितुमशक्या इत्यपरे। ननु स्वल्पकालेन बोधेरप्राप्त्या कथमशक्या भेदयितुमिति । तत्कस्य हेतोरित्याशङ्कयाह । यथापि नामेत्यादि । तस्यानल्पकल्पासंख्येयवौर्यत्वात् बोधिं प्रति न सहसाऽप्राप्तौ विनिवृत्तिरित्यर्थः । असाधारणकुशलमूलोत्पत्तिगुणं दशमं प्रतिपादयन्नाह। ताञ्च कुलपुत्रा इत्यादि। तत्र प्रौतिर्या लोकोत्तरधर्मपर्येष्टिः। प्रसादो बुद्धधर्मसङ्घाश्रयः। प्रामोद्यं या शुद्धता चित्तस्येत्यार्षम्। अथवा पूर्वोक्तमेव व्याख्यानम् । प्रतिलस्यन्त इति । असाधारणकुशलमूलपरिग्रहात् प्रास्यन्ति। प्रतिज्ञायाथार्थ्यसम्पादनगुणमेकादशं कथयनाह। बहुजनस्येत्यादि। पूर्वावेधमन्तरेण कथं सत्त्वार्थ कुर्वन्तौति । तत्कस्य हेतोरित्याशयाह । एवं हि तैरित्यादि। वाग्भाषितेति। प्रणिधानवचनमुच्चारितम् । महाबोधिचित्तोत्पादे नियोजनात्प्रस्थापयिष्यामः सन्दर्शयिष्याम इत्यादि व्याख्यातम् । स्मृत्युपस्थानादिभावनासु प्रवर्तनात् संप्रभावयिष्यामः। प्रमुदितादिसप्तभूमिप्रस्थापनात् सम्बोधये प्रतिष्ठापयिष्यामः (p. 228, 4)। वाग्भाषणेऽपि तदर्थानिष्यत्तौ कथमर्थक्रियाकारित्वमिति । तत्कस्य हेतोरित्याशङ्याह। अनुमोदितं होत्यादि।