________________
अभिसमयालङ्कारालोकः ।
३११
शारिपुत्रेत्यादि। तथापि बहुत्वमपश्यन्नाह। कियन्त (p. 226, 6) इत्यादि। कल्याणमित्रादिबलेन बहूनां सम्भव इत्याह । बहव इत्यादि। स्वरूपबहुत्वादहवः । गोत्रप्राचुर्यात् सुबहवः । सर्वानासवधर्मपरिपूरिगुणं सप्तमं कथयनाह। किञ्चापि शारिपुत्र बहव इत्यादि। तेभ्योऽपि बहुभ्योऽल्पका इति। श्रवणादिकारिभ्योऽपि बहुभ्यः प्रतिपक्षधर्मपरिपूरणलाभादनासवधर्मपरिपूरिगुणनिष्यत्याऽनवलयादिकारिणोऽल्पका इत्यर्थः। कथापुरुषतागुणमष्टमं वक्तुमाह। अनुबड्दास्तैः पौर्वका (p. 227. 1) इत्यादि। त्रिशरणादिभावेनाश्रयादनुबद्धाः। कल्पितादिस्वभावत्रयपरिज्ञानार्थं प्रतिपत्त्यालम्बनसमुदागमानुत्तर्यावबोधार्थ वा यथाक्रमं परिपृष्टाः परिच्छिताः परिप्रश्नौकता इति पदवयं वाच्यम् । अणुमाचावेद्यदर्शनात्परिपूर्णकारिणः। विस्मृतबुद्धभूमिप्रापकधर्मश्रवणाः कथमनुत्तरां बोधिमारभ्यार्थकारिण इति। तत्कस्य हेतोरित्याशङ्याह । तथा हि तेषामित्यादि। समुदाचारा भविष्यन्तौति। सर्वाकारज्ञताकथाकथनलाभेन कथापुरुषतागुणसम्भवात् प्रज्ञापारमिताप्रतिसंयुक्ता विकल्पाः प्रवर्तिष्यन्ते। अभेद्यतागणं नवमं निर्दिशन्नाह । तेषु च सुस्थिता इत्यादि। समुदाचारेषु व्यवस्थिताः । न शक्या भेदयितुमिति। तथागतसानाथ्यकरणलाभेनाभेद्यतागुणोत्पत्ते दयितुं बोधेर्निवर्तयितुमशक्याः। छन्दत इति सूत्रान्तमहायानाभिलाषतः । मन्त्रत इति ।