SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३१. दशमपरिवर्तः । दानादिभिस्तिमृभिः पारमिताभिरनुगृहीतसत्त्वानां चतुःसङ्घहवस्तुसङ्गहौतेनोपायकौशलेन कुशले प्रतिष्ठापनादपायकौशलपारमिता तिसृणां पारमितानां सहायभूता। दृष्टे धर्मे क्लेशप्रचुरतया कुशले कर्मण्यक्षमत्वेनायत्यां मन्दक्लेशत्वे मनसः प्रणिधानात् प्रणिधिपारमिता वौर्यपारमितायाः सहायभूता। सत्पुरुषसेवां सद्धर्मश्रवणञ्चागम्य दर्बलाध्याशयतां व्यावर्त्य, आशयबलत्वं प्रणोते धातौ प्राप्याध्यात्म चित्तस्थापनसामर्थ्य लाभादलपारमिता ध्यानपारमितायाः सहायभूता। बोधिसत्त्वपिटकश्रुतालम्बनपूर्वकलोकोत्तरप्रज्ञानिरिसामर्थ्याज्ञानपारमिता प्रज्ञापारमितायाः सहायभूतेति। वर्तन्यामिति पूर्वदेशे । नवमण्डप्राप्त इति। नवमण्ड इवाभिनवसाराभिधेयेऽर्थे तैस्तैर्धर्मभाणकैः प्राप्ते सति प्रचरिष्यन्ति सूचान्ता इति पूर्वेण सम्बन्धः । अनेन च ग्रन्थेन तथागतकृत्यकरणाद्देशनिरूपणागुणलाभेन धर्मभाणकानां बुद्धसमन्वाहारकांक्षादिनिरसार्थो वेदितव्यः। तदेवाह। समन्वाहृता इत्यादिना। पञ्चकषायोत्सेदत्वेनात्यन्तमभव्यत्वात् सत्त्वधातोर्धर्मरत्नस्य प्रचरणमसम्भावयन्नाह । इयमपौत्यादि। पश्चिमे काल इत्येतदेवाह। पश्चिमसमय इति न कणादादिपरिकल्पितः काला नित्योऽस्ति क्रमेतराभ्यामर्थक्रियारहितत्वेनासत्त्वात्। किन्तु भावसन्निवेश एव कश्चित् पश्चिमः समयः सङ्केतः पश्चिमकालः। उत्तरस्यां दिशि न सर्वत्र किं तर्जुत्तरे दिग्भागे चौनविषयादौ। एवंविधेऽपि काले केचिदवरोपितकुशलमूला भविष्यन्तीत्याह। ये तत्र
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy