________________
अभिसमयालदारालोकः।
३०९
भविष्यन्तौति । तथागतानां समौपौभवनलाभेन सम्यकाम्बोध्यासन्नौभावगणोदयान्निकटवर्तिनो भविष्यन्ति । महार्थतादिगुणं पञ्चमं प्रतिपादयन्नाह । येऽपि शारिपुनामित्यादि। न तथतायां स्थास्यन्तौति (p. 225, 1) । अनन्यथार्थेन तथतायां सम्यक्सम्बोधौ प्रतिपत्तिवैकल्यान्न तदैव स्थास्यन्ति। तेषामपौति। महानुशंसलाभान्महार्थतादिगुणोदयेन पुस्तकलिखितायां धारणवाचनवतां बुद्धैरविरहितत्वं सुगतिपरायणत्वं सम्यक्सम्बुद्धत्वं निर्वाणात् परेणापि च परार्थप्रवृत्तिमधिकृत्य यथाक्रमं महार्थिको महानुशंसो महाफला महाविपाकश्चेति चत्वारि पदानि वेदितव्यानि। प्रकृष्टश्चात्र पाको विपाको द्रष्टव्यः । सपरिश्रम इति । तल्लिखनम्। परिष्यन्द इति धारणवाचने।
यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया। बोधिसत्त्वस्य सततं प्रज्ञया चिप्रकारया । धातुपुष्ट्यै प्रवेशाय चार्थसिद्ध्यै भवत्यसौ ॥ इति ॥ सर्वस्य महायानधर्मस्यानुशंसत्वे कथं जिनजनन्या एवानुशंस इति । तत्कस्य हेतोरित्याशङ्याह । तथा हि प्रज्ञापारमितेत्यादि। यस्मात् सर्वधर्मनै स्वाभाव्यमुखेन धर्माणां तत्त्वप्रतिवेधाय श्रवणादिक्रमेण प्रत्युपस्थिता तस्मात्तस्या एवानुशंसो मुख्यत इत्यर्थः। देशनिरूपणागुणं षष्ठं वक्तुमाह। इमे खलु पुनः शरिपुत्र षट्पारमिताप्रतिसंयुक्ता इत्यादि। षट्पारमितावचनं दानादिपारमितासहायभूतत्वात् परिशिष्टपारमितानाम् । तथा हि